________________
अध्ययनं - ९, [ नि. २६ ] नि. [२६ ]
तेत्तीसइमे कम्मं चउतीसइमे य हुंति लेसाओ । भिक्खुगुणा पणतीसे जीवाजीवा य छत्तीसे ||
वृ. आसामर्थः सुखावगम एव । नवरं विनयमूलोऽयं धर्म:, यत आगम: - "मूलाउ खंधप्पभवो दुमस्स, संधाउ पच्छा समुविति साहा । साहप्पसाहा विरुहंति पत्ता, ततो उ पुष्पं च फलं रसो ॥ १ ॥ एवं धम्मस्स विनओ मूलं परमो से मोक्को । जेण कित्ति सुयं सिग्घं, नीसेसं चाभिगच्छई ॥२॥"
इत्यतः प्रथमाध्ययने विनयोऽधिकृतः, विनयवतश्च तेषु तेषु गुरुनियोगेषु प्रवर्तमानस्य कदाचित् परीपहा उत्पद्येरन् ते च सम्यक् सोढव्या इति द्वितीयाध्ययने परीषहा इत्यादि क्रमप्रयोजनमभ्यूह्यम्, अध्ययनसम्बन्धाभिधानप्रस्तावे चाभिधास्यामः । उपसंहरन्नाहउत्तरज्झयणाणेसो पिंडत्थो वन्निओ समासेणं ।
नि. [२७]
११
इत्तो इक्किक्कं पुन अज्झयणं कित्तइस्सामि ||
वृ. उत्तराध्ययनानाम् ‘एषः' अनन्तराभिहितस्वरूपः 'पिण्डार्थः ' समुदारायार्थः 'वर्णितः उक्तः ‘समासेन' सङ्क्षेपेण, 'इत:' पिण्डार्थवर्णनाद्, अनन्तरमिति गम्यते, एकैकं 'पुनः ' विशेषणे अध्ययनं 'किर्तयिष्यामि' व्याख्याद्वारेण संशब्दयिष्यामीति गाथार्थः ॥ तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः, न च तद् उपक्रमाद्यनुयोगद्वारतभेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुताध्ययनस्यानुयोगविधानक्रममर्थाधिकार चाह
Jain Education International
अध्ययनं -१ विनयश्रुतं
नि. [२८]
तत्थऽज्झयणं पढमं विनयसुयं तस्सुवक्कमाईणि । दाराणि पत्रेवेउं अहिगारो इत्थ विनएणं ।।
वृ. 'तत्र' एतेष्वध्ययनेषु मध्ये अध्ययनं 'प्रथमम्' आद्यं विनयाभिधानकं श्रुतं विनयश्रुतं मध्यपदलोपीसमासः, ‘तस्य' इति विनय श्रुतस्य उपक्रमादीनि द्वाराणि 'प्ररूप्य' तद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, एतदनुयोग: कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्येहानेकधाऽभिधानात्। आह-'पढमे विनओ' इत्यनेनोवोक्तत्वात् पुनरुक्तमेतद्, उच्यते, शास्त्रपिण्डार्थविषयं तत्, एतच्च प्रस्तुतैकाध्ययनगोचरमिति न पौनरुक्त्यमिति गाथार्थः ॥ अत्रापि 'प्ररू प्ये'त्यवसरज्ञापनार्थमेव नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत इति, अनुयोगद्वारेपूक्तत्वात्, तदुक्तानुसारेण किञ्चिदुच्यते इह चत्वार्यनुयोगद्वाराणि उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तद्भेदा यथाक्रमं द्वौ द्वौ चेति, निरुक्तिश्चैवम्-उपक्रमणं दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनमुपक्रमः, नियतं निश्चितं वा नामादिसम्भवत्पक्षरचनात्मकं क्षेपणं- न्यसनं निक्षेपः, अनुरूपं सूत्रार्थाबाधया तदनुगुणं गमनं -संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमो, नयनम्-अनन्तधर्मात्मकस्य वस्तुनो नियतैक धर्मावलम्बेन प्रतीतौ प्रापणं नयः । क्रमप्रयोजनं च - नानुपूर्व्यादिभिर्व्यासदेशमनानीतं शास्त्र निक्षेप्तुं शक्यं, न चौधनिष्पन्नादिभिर्निक्षेपैरनिक्षिप्त
For Private & Personal Use Only
,
www.jainelibrary.org