________________
अध्ययनं - २, [ नि. १२२]
वेति भावनीयं, ‘अदुवे’ति अथवा, अपि: भिन्नक्रमो 'भविस्सइ' त्ति वचनव्यत्ययाद्भविष्यन्ति, जिना इत्यपि 'मृषा' अलीकं, 'ते' जिनास्तित्ववादिनः, 'एवम्' अनन्तरोक्तन्यायेन 'आहंसु 'त्ति आहुः ब्रुवत इति भिक्षुर्न चिन्तयेत्, जिनस्य सर्वज्ञाधिक्षेपप्रतिक्षेपादिषु प्रमाणोपपन्नतया प्रतिपादनात्, तदुपदेशमूलत्वाच्च सकलैहिकामुष्मिकव्यवहाराणामिति सूत्रार्थः । इदानीं शिष्यागमनद्वारं, तत्र च ‘नत्थि नूणं परे लोए' इति सूत्रावयवसूचितमुदाहरणमाहओहाविउकामोऽवि य अज्जासाढो उ पणीयभूमीए ।
नि. [ १२३ ]
११५
काऊण रायरूवं पच्छा सीसेण अनुसिट्ठो ||
1
वृ. 'अवधावितुकामोऽपि ' उत्रिष्क्रमितुकामोऽपि चः पूरणे, आर्याषाढस्तु 'पणितभूमौ' व्यवहारभूमौ हट्टमध्य इत्यर्थः, कृत्वा राजरूप पश्चाच्छिष्येणानुशिष्ट इति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-अत्थि वच्छाभूमीए अज्जासाढा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तत्थ गच्छे जो कालं करेइ तं निज्जावेंति भत्तपच्चक्खाणाइणा, तो बहवो निज्जामिया । अन्नया एगो अप्पणतो सीसो आयरतरेण भणितो- देवगातो आगंतूण मम दरिसणं देज्जासु, न य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलिट्ठोऽहं, सलिंगेणं चेव ओहावइ, पच्छा तेन सीसेण देवलोगगएण आभोईतो, पेच्छइ - ओहावेंतं, पच्छा तेन तस्स पहे गामो विउव्वितो, नडपेच्छा य, सो तत्थ छम्मासे पेक्खंतो अच्छितो, न छुहं न तहं कालं वा दिव्वप्यभावेण वेएति, पंच्छा तं संहरिडं गामस्स बहिं विजने उज्जाणे छद्दारए सव्वालंकारविभूसिए विउव्वति संजमपरिक्खत्थं, दिट्ठा तेन ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतोत्ति, सो एगं पुढविदारयं भणइ - आनेहि आभरणगाणि, सो भणइ - भगवं ! एगं ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिण्हिज्जासि, भणइ - सुणेमि, सो भणइ - एगो कुंभकारो, सो मट्टियं खणतो तडी अक्कंतो, सो भाइनि. [ १२४ ]
जेन भिक्खं बलिं देमि, जेन पोसेमि नायए ।
सा मे मही अक्कमइ, जायं सरणओ भयं ॥
वृ. ‘जेन’त्ति प्राकृतशैल्या यया भिक्षां बलिं ददामि यथाक्रमं भिक्षुदेवेभ्य इति गम्यते, 'जेन' त्ति यया पोषयामि 'नायए'त्ति ज्ञातीन्, सा 'मे'त्ति मां मही 'आक्रामति' अवष्टभ्नाति 'जातम्’उत्पन्नं, शरणतो भयम् इति श्लोकार्थः ॥ अयमिहोपनयः - चौरभयादहं भवन्तं शरणमागत:, त्वं च एवं विलुम्पसि, ततो ममापि जातं शरणतो भयम्, एवमुत्तरत्राप्युपनया भावनीयाः, तेन भण्णइ-अइपंडियवाइतोऽसित्ति घेत्तूण आभरणगाणि पडिग्गहे छूढाणि । गओ पुढविकाइतो, दानि आउक्काओ बीओ, सोऽपि अक्खाणयं कहेइ-जहा एगो तालायरो कहाकहओ पाडलओ नाम, सो अन्नया गंगु उत्तरंतो उवरि वुट्ठोदएण हीरति, तं पासिऊण जनो भणइबहुस्सुयं चितकहं, गंगा वहइ पाडलं ।
नि. [ १२५ ]
वुज्झमाणग ! भद्दं ते, लव ता किंचि सुहासियं ॥
वृ. 'बहुश्रुतं' बहुविद्यं 'चित्रकथं' नानाकथाकथकं गङ्गी वहति 'पाडलं' पाटलनामकम्, उह्यमानक ! भद्रं ते, 'लप' ब्रूहि 'ता' इति तावद्यावदद्यापि दूरं न नीयस इति भाव:, 'किञ्चित्' अत्यल्पं 'सुभाषितं' सूक्तमिति श्लोकार्थः । सोऽवादीत्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org