________________
अध्ययनं - २, [ नि. १२२]
११३
I
भूमी दव्वं निहेल्लयं, तं सो आयरितो नानेन जाणति, पच्छा तेनं तओहुत्तं हत्थं काउं भण्णति'इमं च एरिसं तं च चारिसमित्यादिगाथा' इमं च एरिसं दव्वजायं, सो अन्नाणेणं भमइ, एवं च भणमाणे जनो जाणति, जहा-घरमेव पुव्वि लट्टं इयाणि तु सडियपडियं दट्टु अनिच्चयाणिरूवणत्थं भयवं दंसेइ । सो य आगतो, महिलाए सिद्धं जहा थूलभद्दो आगतो आसि, सो भणति - थूलभद्देण किंचि भणियं ? न किंचि, नवरं खंभहुत्तं हत्थं दायंतो भणियाइओ - 'इमं च एरिसमित्यादि' तेन पंडरिए नायं जहा एत्थ अवस्सं किंचि अत्थि, तेन खाणियं जाव नानापगाररयनान भरियं कलसं पेच्छइ । तेन नानापरीसहो नाहियासिओ । नैवं शेषसाधुभिः कर्त्तव्यम् । इह च प्रज्ञाज्ञानयोर्भावाभावाभ्यां सूत्रे परीपहत्वेनोपवर्णनं निर्युक्तौ चाज्ञानपरीषहे तथैवदोदहारणद्वयोपवर्णनमन्यत्रापि यथासम्भवमेवं भावनीयमिति ज्ञापनार्थं ॥
1
-
-
साम्प्रतमज्ञानादर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाह
मू. (९३)
नत्थि नूनं परे लोए, इड्डी वावि तवस्सिणो । अदुवा वंचिओमित्ति, इइ भिक्खू न चितए ।
वृ. 'नास्ति' न विद्यते ‘नूनं' निश्चितं 'परलोको' जन्मान्तरमित्यर्थः, भूतचतुष्टयात्मकत्वाच्छरीरस्य, तस्य चेहैव पापात्, चैतन्यस्य च भूतधर्मभूतत्वात्, तदितिरिक्तस्य चात्मनः प्रत्यक्षतोऽनुपलभ्यमानत्वाद्, ‘ऋद्धिर्वा' तपोमाहात्म्यरूपा, अपिः पूरणे, कस्य ? - तपस्विनः, सा च आमशौषध्यादिः -
Jain Education International
'पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात्कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणायग्राद्वा ॥ १ ॥ धर्माद्रत्नोन्मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् ।
अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ||२|| '
इत्यादिका च तस्या अप्युनपलभ्यमानत्वादिति भाव:, 'अदुव'त्ति अथवा, किंबहुना ? - वञ्चितोऽस्मि भोगानामिति गम्यते 'इती' त्यमुना शिरस्तुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठाने, उक्तं च-‘“तपांसि यातनाश्रित्राः, संयमो भोगवञ्चना" इत्यिादि, 'इती' त्यनन्तरमुपदर्शितं भिक्षुः 'न चिन्तयेत्' न ध्यायेत्, परिफल्गुरूपत्वादस्य, तथाहि यत्तावदुक्तं- 'भूतचतुष्टयात्मकत्वाच्छरीरस्य जन्मान्तराभाव' इति, तदसत्, न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किन्त्वात्मनः, न च भूतधर्म्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धर्मत्वेनोत्तरत्र निषेत्स्यमानत्वात्, यदपि ऋद्धिर्वा तपस्विनो नास्ति, तदपि वचनामात्रमेव, अथात्मनऋद्धिनां चाभावे अनुपलभ्यो हेतुरक्तः, सोऽपि स्वसम्बन्धी सर्वसम्बन्धी वा ?, तत्र न तावदात्मनोऽभावो स्वसम्बन्ध्यनुपलम्भो हेतु:, स्वयं तस्य घटादिवदुपलभ्यमानत्वात्, यथैव हि घटादिगता रूपादया उपलभ्यन्ते, तथा आत्मगता अपि ज्ञानसुखादय इति नात्र महदन्तरमुत्पश्यामः, उक्तं चाश्वसेनवाचकेन- -"आत्मप्रत्यक्ष आत्माऽय" मित्यादि, अथायं न दग्गोचर इति नास्तीत्युच्यते, नायमप्येकान्तो, यतस्तेनैवोक्तम् - "न च नास्तीह तत् सर्वु चक्षुषा यन्न गृह्यते" अन्यथा चैतन्यमपि न दग्गोचर इति तस्याप्यसत्त्वं स्यात्, अथ तत् स्वसंविदितमिति सदुच्यते, अयमपि तथाभूत
28/8
For Private & Personal Use Only
www.jainelibrary.org