________________
अध्ययनं-२,[नि. १२०] पच्छा भणति-खमासमणा ! के रिसं अहं वक्खाणेमि?, खमासमणेण भण्णति-लटुं, किन्तु मा गव्वं करेहि, को जाणति?, कस्स को आगमोत्ति?, पच्छा धूलिणाएण चिक्खिल्लपिंडएण य आहरणं करेंति । न तहा कायव्वं जहा सागरखमणेण कयं । ताण अज्जकालगाण समीवं सक्को य आगंतुं निओयजीवे पुच्छति, जहा अज्जरक्खियाणं तहेव जाव सादिव्वकरणं च । इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तं, तदभावे तु स्वयमभ्यूह्यमिति ।। इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीपहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यतेमू. (९१) निरझुगंमि विरओ, मेहुणाओ सुसंवुडो।
जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं। मू. ( ९२) तवोवहाणमायाय, पडिमं पडिवज्जओ।
___ एवंपि मे विहरओ, छउमं न नियट्टति ॥ वृ. 'निरझुगंमि'त्ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् सति, 'विरतः' निवृत्तः, कस्मात्?, मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात्, आश्रवान्तरविरतावपि यदस्योपादनां तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि-“दुपच्चया इमे कामा" इत्यादि, सुष्ठ संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, यः ‘साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुस्वभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वत्यस्य गम्यमानत्वात्, यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति (अणति)प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम्, अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्धेनैवं ममाज्ञानं भवेत्, कदाचित् सामान्यचर्ययैव न फलावाप्तिरत आह
तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमां' मासिक्यादिभिक्षुप्रतिमां पडिवज्जिय'त्ति प्रतिपद्याङ्गीकृत्य, पठ्यते च-'पडिम पडिवज्जओ'त्ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपिशब्दार्थः "विहरतो'त्ति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म-ज्ञानावरणादिकर्म 'न निवर्त्तते' नापैतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः । अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकषोपलकल्पना(ता)यामपि न दाध्मातमानसो भवेत्, किन्तु
'पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम्।
श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति?, ।' ___ इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत्-'णिरट्ठयं' सूत्रद्वयम्, अक्षरगमनिका सैव, नवरं निरट्ठयंमिऽवि' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपेरतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं 'साक्षात्' समक्षं नाभिजानामि धर्मं कल्याणं पापकं वा, अयमभिप्रायः-'जे एगं जाणति से सव्वं जाणति (जे सव्वं जाणति) से एगं जाणति' इत्यागमात् छद्मस्थोऽहमेकमपि धर्मं वस्तुस्वरूपं न तत्त्वतो वेद्मि, ततः साक्षाद्भावस्वभावावभासि चेन विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुस्वरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपउपधानादिभिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org