________________
अध्ययनं - २. [ नि. ११६ ]
१०७
हेतौ तृतीया किमुक्तं भवति ?, परितापात्प्रस्वेदः प्रस्वेदाच्चा पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह-'सातं' सुखम्, आश्रित्येति शेष: 'नो परिदेवेत्' न प्रलपेत्-कथं सदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् ? इति सूत्रार्थः ॥ किं तर्हि कुर्यादित्याहमू. ( ८६ )
वेज्ज निज्जरापेही, आरियं धम्मनुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ।
वृ.‘वेदयेत्' सहेत, जल्लजनितं दुःखमिति प्रक्रमः कीदृश: सन् इत्याह-निर्जरणं निर्जराकर्मनामात्यन्तिकः क्षयस्तामपेक्षते-कथं ममासौअ स्यादित्यभिलषतीति निर्जरापेक्षी, क एवं कुर्यादित्याह-आराद्धेयधर्मेभ्यो यात इत्यार्यस्तं 'धर्म' श्रुतचारित्ररूपं नास्त्युत्तरं - प्रधानमन्यदस्मादित्यनुत्तरस्तं, गम्यमानत्वात् प्रसन्नो भावभिक्षुरित्यर्थः, सम्प्रति सामर्थ्यो क्तमप्यर्थमादरख्यापनाय निगमनव्याजेन पुनराह - 'जाव सरीरभेओ'त्ति सूत्रत्वात्, 'यावत्' इति मर्यादायां शरीरस्य भेदो - विनाशस्तं मर्यादीकृत्य, किमित्याह- 'जल्लं' कठिनतापन्नं मलम्, उपलक्षणत्वात् पङ्करजसी च ‘कायेन' शरीरेण धारयेत्, दृश्यन्ते हि केचिदिन्द्राग्निदग्धानीव गिरिशखराणि विच्छायकृष्णदेहाः शीतोष्णवातातपादिभिः परिशोषितपरिदग्धोपहतशरीरा: रजोऽवगुण्डि - तमलदिग्धदेहाः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनयनाय स्नानादि कुर्यात्, यतः - 'न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतेरपि ।
-
अश्रान्तमेव श्रोतोभिरुद्गिरन्नवभिर्मलम्॥" पठ्यते च- 'वेइंतो निज्जरापेहि 'त्ति वेदयमान:- सहमान:, शेषं प्राग्वद्, अत्र केचिच्चतुर्थपादमधीयते, 'जल्लं काए न उव्वटे' त्ति अत्रोद्वर्त्तनग्रहणभुद्वर्त्तयेदपि न, किं पुनः स्त्रायात् ?, यद्वा- 'वेइज्ज' त्ति विद्यात् जानीयाद्धर्ममाचारम्, अर्थाद्यतीनां ज्ञात्वा च 'ज्ञानस्य फलं विरतिरि' ति जल्लं कायेन धारयेत्, तथा 'वेयंतो' त्ति विदन्जानानोऽन्यत्तथैवेति सूत्रार्थः । अत्र 'मलधारिणो 'त्ति द्वारमनुसरन् 'सायं नो परिदेवए' इति सूत्रावयवमर्थतः स्पृशत्रुदाहरणमाह
नि. [ ११७]
चंपाए सुनंदो नाम सावओ जल्लधारणदुगंछी ।
कोसंबीइ दुगंधी उप्पन्नो तस्स सादिव्वं ॥
वृ. चंपायां सुनन्दो नाम श्रावको जल्लधारणजुगुप्सी कौशाम्ब्यां दुर्गन्धिरुत्पन्नः, तस्य सादिव्यं-सदेवत्वमित्यक्षरार्थः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
चंपाए नयरीए सुनन्दो नाम वानियगो सावगो, अवण्णाए चेव जो जं मग्गेइ साहू तस्स तं चेव देइ ओसहभेसज्जाइयं सत्तुगाइयं च सव्वभंडिओ सो, तस्स अन्नया गिम्हे सुसाहूणो जल्लपरिदिद्धंगा आवणं आगया, तेसिं गंधो जल्लस्स ताण ओसहाणं गंधवभिभविउं उक्कलति, तेन सुगंधदव्वभाविएण चिंतियं सव्वं लट्टं साहूण जदिनाम जल्लं उवट्टिता तो सुंदरं होतं, एवं सो तस्स ठाणस्स अनालोइयपडिक्कंतो कालगतो कोसंबीए नयरीए इब्भकुले पुत्तत्ताए आगतो, सो निविण्णकामभोगो धम्मं सोऊण पव्वतितो, तस्स तं कम्ममुदिनं, दुरभिगंधो जातो, तओ जतो जतो वच्चति तओ तओ उड्डाहा, पच्छा साहूहिं भणितो- तुमं मा निग्गच्छ उड्डाहो, पडिस्सए अच्छाहि, रत्ति देवयाए सो काउस्सग्गं करेइ, पच्छा देवयाए सुगंधो कतो, सो जहा नाम कोट्टपुडाण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International