________________
९८
उत्तराध्ययन-मूलसूत्रम्-१-२/७१ इत्याह-'पावदिट्ठी विहन्नाइ'त्ति प्राग्वदिति सूत्रार्थः ।। किं पुनः कुर्यादित्याहमू. (७२) पइरिक्कमुवस्सयं लद्धं, कल्लाणं अदुव पावगं।
किमेगरायं करिस्सइ?, एवं तत्थऽहियासए। वृ. 'पइरिकं'स्त्र्यादिविरहितत्वेन विविक्तमव्याबाधं वा 'उपाश्रयं वसति लब्ध्वा' प्राप्य 'कल्याणं' शोभनम् 'अदुव'त्ति अथवा 'पापं' पांशूत्कराकीर्णत्वादिभिरशोभनं, किं ?, न किञ्चित्, सुखं दुःखं चेति गम्यते, एका रात्रिर्यत्र तदेकरात्रं करिष्यति' विधास्यति?, कल्याण: पापको वोपाश्रय इति प्रक्रमः, कोऽभिप्रायः?-केचित् पुरोपचितसुकृता विविधर्माणकिरणोद्योतितासु महाधसमृद्धासु महारजतरजतोपचितभित्तिषु मणिनिमितोरुस्तम्भासु तदितरे तु जीर्णविशीर्णभग्नकटकस्थूणापटलसंवृत्तद्वारासु तृणकचवरतुषपूषकोत्करपांशुबुसभस्मविन्मूत्रावसङ्कीर्णासु श्वनकुलमार्जारमूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति, मम त्वद्यैवेयमीदृशी श्वोऽन्या भविष्यतीति किमत्र हर्षेण विषादेन वा?, मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, किमपरेण ?, 'एवमि' त्यमुना प्रकारेण 'तत्रे' ति कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिकापेक्षया तु कतिपया रात्रयः, दिवसोपलक्षणं च रात्रिग्रहणमिति सूत्रार्थः । अत्र निर्वेदद्वारम्, इह च 'अदुव पावगं' ति सूत्रावयमर्थतः स्पृशन् उदाहरणमाह नियुक्तिकार:नि.[१०८] कोसंबी जन्नदत्तो सोमदत्तो य सोमदेवो य।
आयरिय सोमभूई दुण्हंपि य होइ नायव्वं ॥ नि.[१०९] सन्नाइगमण वियडवेरग्गा दोवि ते नईतीरे।
पाओवगया नईपूरएण उदहिं तु उवनीया।। वृ. कौशाम्बी यज्ञदत्तः सोमदत्तश्च सोमदेवश्च आचार्यः सोमभूतिर्द्वयोरपि च भवति ज्ञातव्यः, स्वज्ञातिगमनं विकटवैराग्यात् द्वावपि तौ नदीतीरे पादपोपगतौ नदीपूरकेणोदधिं तूपनीतौ इति गाथाद्वयाक्षरार्थः ।। भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - ___ कोसंबीए नयरीए जन्नदत्तो धिज्जाइओ, तस्स दो पुत्ता, सोमदत्तो सोमदेवो य, ते दोऽवि निविण्णकामभोगा पव्वतिया सोमभूई अणगारस्स अंतिए, बहुस्सुया बहुआगमा य जाया, ते अन्नया य सन्नायपल्लिमागया, तेसिं मायापियरो उज्जेणिं गतेल्लिया, तहिं च विसए धिज्जाइणो वियडं आवियंति, तेहिं तेसिं वियडं अन्नेण दव्वेण मेलेऊण दिन्नं, केऽवि भणंति-वियडंचेव अयाणताण दिन्नं, तेहिवि यतं विसेसं अयाणमाणेहिं पीयं, पच्छा वियडत्ता जाया, ते चिंतेतिअम्हेहिं अंजुत्तं कयं, पमाओ एस, वरं भत्तं पच्चक्खायंति ते एगाए नदीए तीरे तीसे कट्ठाण उवरिं पाओवगया, तत्थ अकाले वरिसं जायं, पूरो य आगतो, हरिया, वुज्झमाणा य उदएण समदंनीया। तेहिं संमं अहियासियं, अहाउयं पालियं, सेज्जापरीसहो अहियासतो समविसमाहिं सेज्जाहिं । एवं एसो अहियासियव्वोत्ति । शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेदतस्तत्परीषहमाहमू. (७३) अक्कोसेज्ज परो भिक्खु, न तेसिं पइ संजले।
सरिसो होई बालाणं, तम्हा भिक्खू न संजले ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org