________________
७९
अध्ययनं-२, उद्देशकः - [नि.१६९]
नोअवराहंदुविहंमाउगनोमाउगंचेव॥ वृ.भावपदमपि च द्विविधम्, द्वैविध्यमेव दर्शयति-अपराधहेतुभूतं पदमपराधपदम्-इन्द्रियादि वस्तु, चशब्दः स्वगतानेकभेदसमुच्चार्थः, 'नोअवराहं'त्ति चशब्दस्य व्यवहितोपन्यासान्नोअपराधपदंच, चः पूर्ववत्, नोअपराधमिति-नोअपराधपदंद्विविधम्-'माउअनोमाउअंचेव'त्ति मातृकापदं नोमातृकापदं च, तत्र मातृकापदं-मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदं, यथा दृष्टिवादे "उप्पन्ने इवा" इत्यादि, नोमातृकापदं त्वन्तरगाथया वक्ष्यतीति गाथार्थः॥ नि.[१७०] नोमाउगंपिदुविहंगहियं च पइन्नयं च बोद्धव्वं।
गहियं चउप्पयारंपइन्नगं होइ(अ)नेगविहं।। वृ.'नोमाउयंपि' त्ति नोमातृकापदमपि द्विविधम्, कथमित्याह-'ग्रथितं च प्रकीर्णकं च बोद्धव्यम्' ग्रथितं रचितं बद्धमित्यनर्थान्तरम्, अतोऽन्यत्प्रकीर्णकं-प्रकीर्णकथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्प्रकार-गद्यादिभेदात्, प्रकीर्णकं भवत्यनेकविधम्, उक्तलक्षणत्वादेवेति गाथार्थः ।। ग्रथितमभिधातुकाम आहनि.[१७१] गज्जं पज्जं गेयं चुण्णं च चउव्विहं तु गहियपयं।
तिसुमुट्ठाणं सव्वंइहबेंति सलक्खणा कइणो। वृ.गद्यं पद्यं गेयं चौर्ण च चतुर्विधमेव ग्रथितपदम्, एभिरेव प्रकारैर्ग्रथनात, एतच्च त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं-तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं 'सर्व' निरवशेषम्, आहएवं मोक्षसमुत्थानस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्तर्भावात्, धर्मकार्यत्वादेव मोक्षस्येति, लौकिकपदलक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम्, ‘इह' एवं ब्रुयते 'सलक्षणा' लक्षणज्ञाः कवय इति गाथार्थः। नि.[१७२] महुरंहेउनिजुत्तं गहियमपायं वीरामसंजुत्तं ।
अपरिमियं चऽवसाने कव्वं गज्जं ति नायव्वं॥ वृ.गद्यलक्षणमाह-'मधुरं' सूत्रार्थोभयैः श्रव्यम् ‘हेतुनियुक्तं' सोपपत्तिकम् ‘ग्रथितं' बद्धमानुपूर्व्या 'अपादं विशिष्टच्छन्दोरचनायोगात्पाद-वर्जितम् विरामः-अवसानं तत्संयुक्तमर्थतो नतुपाठतः इत्येके, जहा-जिनवरपादारविंद-संदाणिउरुनिम्मल्लसहस्स एवमादिअसमाणिउंन चिट्ठइत्ति, यतिविशेषसंयुक्त अन्ये अपरि-मितंचावसाने बृहद्भवतीत्येके, अन्येत्वपरिमितमेव भवति बुहदित्यर्थः, अवसाने मृदुपव्यत इति शेषः, काव्यं गद्यम्, 'इति' एवंप्रकारंज्ञातव्यमिति गाथार्थः॥ नि.[१७३] पज्जंतु होइ तिविहं समसद्धसमंच नाम विसमंच।
___ पाएहिँ अक्खरेहिँ य एव विहिन्नू कई बेंति॥ वृ.अधुना पद्माह-पद्यं तु, तुशब्दो विशेषणार्थः, भवति 'त्रिविधं' त्रिप्रकारं, सममर्घसमंच नाम विषमंच, कैः सममित्यादि।, अत्राह-पादैरक्षरैश्च, पादैः चतुःपादादिभिरक्षरैः गुरुलघुभिः, अन्ये तु व्याचक्षते-समं यत्र चतुर्वपि पादेषुसमान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीयोर्द्वितीयचतुर्थयोश्च समान्यक्षराणि, विषमंतु सर्वपादेष्वेव विषमाक्षरमित्येवं विधिज्ञाः' छन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org