________________
७८
दशवैकालिक - मूलसूत्रं - २ /-/ ६ इत्यादि, ‘तेनाधिकार' इति मदनकामेन, शेषा उच्चारितसदृशा इति प्ररूपिताः, 'तस्य तु' मदनकामस्य वदन्ति 'धीराः ' तीर्थकरगणधरा निरुक्तम्, 'इदं' वक्ष्यमाणलक्षणमिति गाथार्थः ॥ नि. [१६५ ]. विसयसुहेसु पसत्तं अबुहजनं कामरागपडिबद्धं ।
उक्कायंति जीवं धम्माओ तेन ते कामा॥
वृ. विषीदन्ति-अवबध्यन्ते एतेषु प्राणिन इति विषयाः - शब्दादयः तेभ्यः सुखानि तेषु प्रसक्तःआसक्तस्तं जीवमिति योग:, स एव विशेषयते - अबुधः - अविपश्चिज्जनः - परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, अनेन बाह्यं विषय- सुखप्रसक्तिहेतुमाह, ‘कामरागप्रतिबद्ध’मिति कामामदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो- व्याप्तस्तम्, अनेन त्वान्तरंविषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्काम-रागप्रतिबद्धत्वाच्च विषयसुखेषु प्रसक्तमिति भावः, किम् ? - निरुक्तवैचित्र्यादाह-तत्व- - प्रत्यनीकत्वादुत्क्रामयन्ति - अपनयन्ति जीवमनन्तरविशेषितम्, कुत्तो ?, धर्मात्, यत्तदोर्नि त्याभिसंबन्धात् येन कारणेन तेन (ते) सामान्येनैव कामरागः कामा इति गाथार्थः ॥ अन्ये पठन्ति - उत्क्रामयन्ति यस्मादिति, अत्र चाबुधजन एव विशेष्यः, शेषं पूर्ववत् ॥
नि. [१६६ ]
अन्नंपिय से नामं कामा रोगत्ति पंडिया बिंति । कामे पत्थे माणो रोगे पत्थेइ खलु जंतू ॥
वृ. अन्यदपि च 'एषां' कामानां नाम, किंभूतमित्याह-कामा रोगा 'इति' एवं पण्डिता ब्रुवते, किमित्येतदेवमत आह- कामान् प्रार्थयमानः-अभिलषन् रोगान् प्रार्थयते खलु जन्तुः तद्पत्वादेव, कारणे कापर्योपचारादिति गाथार्थः ॥
इत्थं पूर्वार्धे सूत्रस्पर्शिक-निर्युक्तिम-भिधायाधुनोत्तरार्धे पदावयवमधिकृत्याहनि. [१६७ ] णामपयं ठवणपयं दव्वपयं चेव होइ भावपयं । एक्क्कंपिय एत्तो णेगविहं होइ नायव्वं ।
वृ. नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम्, एकैकमपि च 'अत' एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः ॥
अवयवार्थं तु नामस्थापने क्षुण्णत्वादनादत्य द्रव्य-पदमभिधित्सुराहनि. [१६८ ] आउट्टिमउक्किन्नं उन्नेज्जं पीलिमं च रंगं च ।
गंथिमवेढिमपूरिम वाइमसंघाइमच्छेज्जं ॥
वृ. आकोट्टिमं जहा रूवओ हेट्ठा वि उवरिंपि मुहं काऊण आउडिज्जति, उत्कीर्णं शिलादिषु नामकादि, तहा बउलादिपुप्फसंठणाणि चिक्खिल्लमयपडिबिंबगाणि काउं पच्चंति, तओ तेसु वग्धारित्ता मयणं छुब्भति, तओ मयणमया पुप्फा हवन्ति, एतुदुपनेयम्, पीडावच्च - संवेष्टितवस्त्रभङ्गावलीरूपं, रत्तावयवच्छविधिचित्तरूवं रङ्ग, चः समुच्चये, 'ग्रथितं' मालादि, 'वेष्टिमं ' पुष्पमयमुकुटरूपं, चिक्खिल्लमयं कुण्डिकारूपं अनेगच्छिदं पुप्फथामं पूरिमं, वातव्यं कुविन्दैर्वस्त्रविनिर्मितमश्वादि, संघात्यं कञ्चुकादि, छेद्यं पत्रच्छेद्यादि। पदता चास्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथार्थः । उक्तं द्रव्यपदम्, अधुना भावपदमाहनि. [१६९], भावपयंपि यदुविहं अवराहपयं च नो य अवराहं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org