________________
अध्ययनं -१, उद्देशकः - [नि. ७४]
४५
इति गाथार्थः ।। उदाहरणदेशता पुरस्योदाहृतैकदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात्, तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्त्तव्यमिति विहायानुशास्त्योपसंहारमहा, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेर्निश्चयेन तदकरणादिति भावनीयमिति, एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तद्देशद्वारे अनुशास्तिद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य दर्शयति
नि. [ ७५ ]
जेसिपि अत्थि वत्तव्वा तेऽवि अम्हवि स अत्थि ।
किंतु अकत्ता न भवइ वेययइ जेन सुहदुक्खं ।
वृ. 'येषामपि' द्रव्यास्तिकादिनयमतावलम्बिनां तन्नान्तरीयाणां किम् ? - 'अस्ति' विद्यते ‘आत्मा' जीवः वक्तव्या: ‘तेऽपि' तन्नान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैकल्यात्, किन्तु 'अकर्त्ता न भवति' सुकृतदुष्कृतानां कर्मणामकर्त्ता न भवतिअनिष्पादको न भवति, किन्तु ? कर्तेव, अत्रैवोपपत्तिमाह- "वेदयते' अनुभवति 'येन' कारणेन, किम् ?‘सुखदुःख' सुकृतदुष्कृतकर्मफलमिति भावः। न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गात्, मुक्तानामपि सांसारिक सुखदः खवेदनाऽऽपत्तेः, अकर्तृत्वाविशेषात् प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकर्त्तारमात्मानं प्रत्यकिञ्चित्करत्वाद्, अलं विस्तरेणेति - गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रेव चासंप्रतिपत्तौ समर्थनाय निदर्शनाभिधानादिति । गतमनुशास्तिद्देशद्वारम् अधुनोपालम्भद्वारविवक्षयाऽऽहउवलम्भम्मि मिगावइ नाहियवाईवि एव वत्तव्वो ।
नि. [ ७६ ]
नत्थित्ति कुविन्नाणं आयाऽभावे सइ अजुत्तं ॥
वृ. उपालम्भे प्रतिपाद्ये मृगावतिदेव्युदाहरणम् । एयं च जहा आवस्सए दव्वपरंपराए भणियं तहेव दट्ठव्वं, जाव पव्वइया अज्जचंदनाए सिस्सिणी दिना । अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, चंदादिच्चा सविमानेहिं वंदिउं आगया, चउपोरसीयं समोसरणं काउं अत्थमणकाले पडिगया, तओ मिगावई संभंता, अयि ! वियालीकयंति भणिऊणं साहुणीसहिया जाव अज्जचंदणासगासं गया, ताव य अंधयारयं जायं, अज्जचंदनापमुहाहिं साहुणीणं ताव पडिक्कतं, ताहे सा मिगावई अज्जा अज्जचंदणाए उवालब्भइ, जहा एवं नाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि ?, अहो न लट्ठयं, ताहे पणमिऊण पाएसु पडिया, परमेण विणएण खामेइ, खमह मे एगमवराहं, नामं पुणो एवं करेहामित्ति । अज्जचंदना य किल तंमि समए संथारोवगया पसुत्ता, इयरीए वि परमसंवेगगयाए केवलनाणं समुप्पन्नं, परमं च अंधयारं वट्टइ, सप्पो य तेनंतरेन आगच्छइ, पव्वत्तिनीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिबुद्धा य अज्जचंदना, पुच्छियाकिमेयं ?, सा भणइ - दीहजाइओ, कहं तुमं जाणसि ? किं कोइ अति-सओ ? आमंति, पडिवाइ अप्पडिवाइत्ति पुच्छिया सा भणइ-अप्पडिवाइत्ति, तओ खमिया ।
लोगलोगुत्तरसाहरणमेयं । एवं पमायंतो सीसो उवालंभेयव्वोत्ति । उदाहरणदेशता पूर्ववद्योजनीयेति । एवं तावच्चरणकरणानुयोगमधिकृत्य जीवनास्तित्वप्रतिपाद इत्यर्थः एवं 'वक्तव्यः' अभिधातव्यः - 'नास्ति' न विद्यते, कः ? प्रकरणाज्जीव इति, एवंभूतं 'कुविज्ञानं' जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माऽभावेसति न युक्तम्, आत्मधर्मत्वाद् ज्ञानस्येति भावना,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org