________________
अध्ययनं-१, उद्देशकः - [नि.७०] दितेन, यथाऽसौ साम्यग्वर्त्तत इति भावार्थः । एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्यपन्नविनाशद्वारम्, अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा 'वातूलिको' नास्तिको वदेत, किं?-'सर्वेऽपि' घटपटादयः 'नत्थि'त्ति प्राकृतशैल्या न सन्ति 'भावाः' पदार्थाः किं पुनर्जीव:?, सुतरां नास्तीत्यभिप्रायः, ‘स वक्तव्यः' सोऽभिधाताव्यः, किमित्याहनि.[७१] जंभणसि नत्थि भावा वयणमिणं अत्थि नत्थि?
जह अत्थि। एव पइन्नाहानी असओ नुनिसेहए को नु! | वृ.'यद्भणसि' यद्ब्रवीषि'नसन्ति भावा' नविद्यन्ते पदार्था इति, वचनमिदं' भावप्रतिषेधक मस्ति नास्तीति विकल्पौ ?, किं चातो?, यद्यस्ति एवं प्रतिज्ञाहानिः, प्रतिषेधवचनस्यापि भावत्वात, तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह-'असनो नु'त्ति अथासन्निषेधते को नु?, निषेधवचनस्यैवासत्त्वादित्यमभिप्राय इति गाथात्रयार्थः॥ यदुक्तम्- 'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याहनि.[७२] नो य विवक्खापुव्वो सद्दोऽजीवुब्भवोत्ति न य सावि।
जमजीवस्स उसिद्धो पडिसेहधणीओ तो जीवो। वृ.चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् 'नच' नैव विवक्षापूर्वो' विवक्षाकारणा: इच्छाहेतुरित्यर्थः, 'शब्दो' ध्वनिः अजीवोद्भवः' अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधक: शब्द इती, मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह-'न च' नैव 'सापि' विवक्षा 'यद्' यस्मात् कारणाद् 'अजीवस्यतु' अजीवस्यैव, घटादिष्वदर्शनात्, किन्तु मनस्त्व-परिणता(त्य)न्विततत्तद्रव्यसाचिव्यतो जीवस्यैव, यतश्चैवमतः 'सिद्धः' प्रतिष्ठितः 'प्रतिषेधध्वनेः' नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, 'ततः' तस्मात् 'जीव' आत्मेति, अत्र बहुवक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। व्याख्यातं प्रत्युत्पन्नविनाशद्वार, तदन्वाख्यानाच्चोदाहरणमिति मूलद्वारम्, अधुना तद्देशद्वारवयवार्थमभिधित्सुराहनि.[७३] आहरणं तद्देसे चउहाअनुसट्ठितहउवालंभो।
पुच्छा निस्सावयणं होइ सुभद्दाऽनुसट्ठीए॥ वृ.उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमत्र, तथा चाह-तस्य देशस्तद्देश उदाहरण-देश इत्यर्थः, अयं 'चतुद्धी' चतुष्प्रकारः, तदेव चतुष्प्रकारत्वमुपदर्शयति-अनुशासनमनुशास्ति:सद्गुणोत्कीर्तनेनोपबृंहणमीत्यर्थः, तथोपालम्भनमुपालम्भः-भङ्गयैव विचित्रं भणनमित्यर्थः, पृच्छा-प्रश्नः किं कथं केनेत्यादि, निश्रावचनम्-एकं कञ्चन निश्राभूतं कृत्वा य विचित्रोक्तिरसौ निश्रावचनमिति। तत्र भवति सुभद्रा नाम श्राविकोदाहरणम्, क्व?-अनुशास्ताविति।
तत्थ अनुसट्ठीए सुभद्दा उदाहरणं-चंपाए नयरीए जिनदत्तस्स सुसावगस्स सुभद्दा नाम धूया, सा अईव रूववई सा य तच्चनियउवासएण दिट्ठा, सो ताए अज्झोववन्नो, तं मग्गई, सावगो भणइ-नाहं मिच्छादिट्ठिस्सधूयं देमि, पच्छा सो साहूणा समीवंगओ धम्मो य अनेन पुच्छिओ, कहिओ साहूहि, ताहे कवडसावयधम्म पगाहिओ, तत्थ य से सब्भावेणंचेव उवगओ धम्मो, ताहे तेन साहूणं सब्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं नायं जहा कवडेणं कज्जहित्ति, अन्नमियाणि देह मे अनुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org