________________
दशवैकालिक - मूलसूत्रं
२६४
अथवा ज्ञानक्रियानयमतं प्रत्येकभिधायाधुना स्थितपक्षमुपदर्शयन्नाह- 'सव्वेसिं गाहा' ‘सर्वेषामपि' मूलनयानाम्, अपिशब्दात्तद्भेदानां च 'नयानां' द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसंमतं वचनं यच्च-रणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ॥
महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ॥ १ ॥ दशवैकालिके टीकां विधाय यत्पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः ॥ २ ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रस्य भद्रबाहुस्वामि विरचिता निर्युक्तिः एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता
४२ तृतीयं मूलसूत्रं दसवैकालिकं समाप्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org