________________
२६३
चूलिका-२. मूलं-५४० [नि.३७२]
न यस्मादन्धेनान्धः समाकृष्णमाणः सम्यक्पन्थानंप्रतिपद्यत इत्यभिप्रायः। एवंतावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपिन तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, 'इति जो उवएसो सो नओ नाम'ति 'इति' एवमुक्तेन न्यायेन य 'उपदेशो' ज्ञानप्राधान्यख्यापनपर: स नयो नाम, ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रियेत तत्कार्यत्वात्तदायत्तत्वान्नेच्छति गुणभुते चेच्छतीति गाथार्थः॥
उक्तो ज्ञानमयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैवप्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेवस्वपक्षसिद्धये गाथामाह-'णायंमि गिहिअव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राय॑थिना यतितव्यमेवेति, नयस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदश्यते, तथा चान्यैरप्युक्तम्
___ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम्।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्॥" . तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपिक्रियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्येवमेवव्यवस्थितं, यत उक्तम्
"चेइअकुलगणसंघे आयरिआणं च पवयणसुए अ।
- सव्वेसुवितेन कयं तवसंजममुज्जमंतेनं।" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः
"सुबहुंपि सुअमहीअंकिं काही चरणविप्पमुक्कस्य?।
अंधस्स जह पलित्ता दीवसय-सहस्सकोडीवि॥" . दृशिक्रियाविकलत्वात्तस्येत्यभिप्राय:, एवंतावत्क्षायोपशमिकंचारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलस्थायिनी सर्वसंवररूपाचारित्रक्रिया नावाप्तेति, तस्माक्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् इति जो उवएसो सो नओ नाम तिइत्येवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः सनयो नाम, क्रियानयइत्यर्थः, अयंचज्ञानवचनक्रियारूपेऽस्मिन्नध्ययनेक्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचनेतुतदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः॥
उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाहकिमत्र तत्त्वम्?, पक्षद्वयेऽपि युक्तिसंभवात्, आचार्यः पुनराह
"सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता। तं सव्वनयविसुद्धं जंचरणगुणट्ठिओ साहू॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org