________________
अध्ययनं-९,उद्देशकः-४. [नि.३२८]
२३५ भावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ।।
मू.(४७३)चउब्विहा खलु विनयसमाही भवई, तंजहा-अनुसासिज्जंतो सुस्सूसइ १ सम्मसंपडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ ।
वृ.विनयसमाधिमभिधित्सुराह-चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथे'-त्युदाहरणोपन्यासार्थः, अनुसासिज्जंतो' इत्यादि, अनुशास्यमानः' तत्र तत्र चोद्यमानः 'शुश्रु-षति' तदनुशासनमर्थितया श्रोतुमिच्छति १, इच्छाप्रवृत्तितः तत् 'सम्यक् संप्रतिपद्यते' सम्यग्-अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, सचैव विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः-श्रुतज्ञानं तद् यथोक्तानुष्ठानपरतया सफलीक रोति ३, अत एव विशुद्धप्रवृत्तेः 'न च भवत्यात्मसंप्रगृहीतः' आत्मैव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, 'चतुर्थं पदं भवती'त्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, मू. (४७४)
भवई अ इत्थ सिलोगो - वृ.भवति च 'अत्र श्लोकः' अत्रेति विनय समाधौ ‘श्लोकः' छन्दोविशेषः । स चायम्मू. (४७५) पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए।
नयमानमएण मज्जई, विनयसमाहि आययहिए। वृ. 'प्रार्थयते हितानुशासनम्' इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, 'शुश्रूषती'त्यनेकार्थत्वाद्यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत् करोति, न च कुर्वन्नपि 'मानमदेन'मानगर्वेण 'माद्यति' मदं याति 'विनयसमाधौ' विनयसमाधि-विषये 'आयतार्थिको'मोक्षार्थीति सूत्रार्थः ॥
मू, (४७६)चउब्विहा खलु सुअसमाही भवई, तंजहा-सुअंमे भवस्सइत्ति अज्झाइअव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं भवइ २, अप्पाणंठावइस्सामित्ति अज्झाअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ४, चउत्थं पयं भवइ।
वृ.उक्तो विनयसमाधिः, श्रुतसमाधिमाह-चतुर्विधः खलु श्रुतसमाधिर्भवति, 'तद्यथे'त्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्ग भविष्यतीत्यनया बुद्ध्याऽध्यतव्यं भवति, न गौरवाद्यालम्बनेन १. तथाऽध्ययनं कुर्वत्रेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येत्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदि-तधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेनचालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यंभवत्यनेनालम्बनेन ४चतुर्थं पदं भवति । मू. (४७७)
भवइ अइत्थ सिलोगो वृ. भवति चात्र श्लोक इति पूर्ववत् । स चायम् - मू. (४७८) नाणमेगग्गचित्तो अ, ठिओ अ ठावई परं।
सुआणि अ अहिज्जित्तो, रओ सुअसमाहिए। वृ.'ज्ञान'मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च' तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर'मिति स्वयं धर्मे स्थितत्वादन्यमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org