________________
२३४
दशवैकालिक-मूलसूत्र-९/३/४६९ चरे मुनी पंचरए तिगुत्तो, चउक्कसायावगए स पुज्जो ॥ वृ.तेषां 'गुरूणाम्' अनन्तरोदितानां 'गुणसागराणां' गुणसमुद्राणां मंबन्धीनि श्रुत्वा मेघावी 'सुभाषितानि' परलोकोपकारकाणि 'चरति' आचरति 'मुनिः' साधुः ‘पञ्चरतः' पञ्चमहाव्रतसक्तः 'त्रिगुप्तो' मनोगुप्त्यादिमान् 'चतुःकषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः ।। मू.(४७०) गुरुमिह सययं पडिअरिअ मुनी, जिनमयनिउणे अभिगमकुसले।
धुणिअ रयमलं पुरेकडं, भासुरमउलं गई वई ।। त्ति बेमि॥ वृ.प्रस्तुतफलाभिधानेनोपसंहरनाह-'गुरुम्'आचार्यादिरूपम् ‘इह' मनुष्यलोके 'सततम्' अनवरतं परिचर्य' विधिनाऽऽराध्य 'मुनिः' साधुः, किंविशिष्टोमुनिरित्याह-'जिनमतनिपुणः' आगमे प्रवीण: अभिगामकुशलो' लोकप्राघूर्णकादिप्रतिपत्तदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षपयित्वाऽष्टप्रकारं कर्मति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वात् 'अतुलाम्' अनन्यसदृशीं 'गति' सिद्धरू पां 'व्रजती'ति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । ब्रबीमीति पूर्ववदिति सूत्रार्थः ।
- अध्ययनं-९, उद्देशक :-३ समाप्तः
-: अध्ययनं-९, उद्देशकः-४ :मू. (४७१ )सुअंमे आउसं! तेनं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं चत्तारि विनयसमाहिट्ठाणा पन्नता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विनयसमाहिठाणा पन्नत्ता?, इमे खलु ते थेरेहिं भगवंतेहिं चत्तारिविनयसमाहिट्ठाणा पन्नता, तंजहा विनयसमाही सुअसमाही तवसमाही आयारसमाही।
वृ. -अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह-श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह खल्वि'ति इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः ‘भगवद्भिः ' परमैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलुतानीत्यादिना निर्वचनं, तद्यथे'त्युदाहरणोपन्यासार्थः,विनयसमाधिः १ श्रुतसमाधि: २ तप:समाधिः ३ आचारसमाधिः ४, तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः एवं शेषेष्वपिशब्दार्थो भावनीयः॥ एतदेव श्लोकेन संगृह्यातिमू. (४७२) विनय सुए अ तवे, आयारे निच्चपंडिआ।
अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ॥ वृ. विनये' यथोक्तलक्षणे 'श्रुते' अङ्गादौ 'तपसि' बाह्यादौ 'आचारे च' मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं' सर्वकालं ‘पण्डिताः' सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-'अभिरमयन्ति' अनेकार्थत्वादाभिमुखेन विनयादिषु युञ्जते 'आत्मानं' जीवं, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह-ये भवन्ति 'जितेन्द्रिया' जितचक्षुरादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org