________________
अध्ययनं - ९, उद्देशकः - २. [नि. ३२८]
२३१
धर्मा 'विनयेऽकोविदो' विनयविषयेऽपण्डितः 'असंविभागी' यत्र क्वचन लाभे न संविभागवान् । य इत्थंभूतोऽधमो नैव तस्य मौक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति । मू. (४५५) निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विनयमि कोविआ ।
तरितु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ॥
वृ.विनयफलाभिधानेनोपसंहरन्नाह-निर्देश - आज्ञा तद्वर्त्तिनः पुनर्ये 'गुरूणाम्' आचार्यादीनां 'श्रुतार्थधर्मा' इथि प्राकृतशैल्या श्रुतधर्मार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा विपश्चितो य इत्थंभूतास्तीर्त्वा ते महासत्त्वा 'ओघमेनं' प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीर्चेव तीर्त्वा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतुमुत्तमां सिद्ध्याख्यां 'गताः ' प्राप्ताः । इति ब्रवीमीति पूर्ववदिति ।
अध्ययन - ९, उद्देशक :
A
२ समाप्तः
-: अध्ययनं - ९, उद्देशक :- ३ :
मू. (४५६ ) आयरिअं अम्मिवाहिअग्गी, सुस्सूमाणो पडिजागरिज्जा । आलोइअं इंगिअमेव नच्चा, जो छंदमाराहयइ स पुत्तो ॥ वृ. साम्प्रतं तृतीय आरभ्यते, इह च विनीत: पूज्य इत्युपदर्शयन्नाह
'आचार्य' सूत्रार्थप्रदं तत्स्थानीयं वाऽन्य ज्येष्ठार्य, किमित्याह - 'अग्निमिव' तेजस्कायमिव 'आहिताग्नि' ब्राह्मण: 'शुश्रूषमाणः' सम्यक्सेवमानः 'प्रतिजागृयात्' तत्तत्कृत्यसंपादनेनोपचरेत् । आह-यथाऽऽहिताग्निरित्यादिना प्राणिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधि - कादिकमप्यधिकृत्योच्यते, वक्ष्यति च - 'रायणीएसु विनय' मित्यादि, , प्रति'जागरणोपायमाह - 'आलोकितं' निरीक्षितम् 'इङ्गितमेव च' अन्यथावृत्तिलक्षणं 'ज्ञात्वा' विज्ञायाचार्योयं 'यः' साधुः 'छन्दः' अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्यद्यानयनेन 'स पूज्यः' स इत्थंभूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः ॥
मू. (४५७) आयारमट्ठा विनयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइटुं अभिकंखमाणो, गुरुं तु नासाययई स पुज्जो ॥
वृ. प्रक्रान्ताधिकार एवाह
'आचारार्थ' ज्ञानाद्याचारनिमित्तं 'विनयम्' उक्तलक्षणं 'प्रयुङ्क्ते' अतोऽन्यथाकरणेन 'गुरुं त्वि' ति आचार्यमेव ‘नाशातयति' न हीलयति यः स पूज्य इति सूत्रार्थः ॥
मू. (४५८) रायनिएस विनयं पउंजे, डहराऽवि अ जे परिआयजिट्ठा । नी अत्तणे वट्टइ सच्चवाई, उ वायवं वक्ककरे स पुज्जो ॥
वृ. किच- 'रत्नाधिकेषु' ज्ञानादिभावरत्त्राभ्युच्छ्रितेषु 'विनयं' यथोचितं 'प्रयुडक्ते' करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां 'पर्यायज्येष्ठां' चिरप्रव्रजितास्तेषु विनयं प्रयुडक्ते, एवं च यो 'नीचत्वे' गुणाधिकान् प्रति नीच भावे वर्त्तते 'सत्यवादी' अविरुद्धवक्ता तथा 'अवपातवान्' वन्दनशीलो निकटवर्ती व एवं च यो 'वाक्यकरो' गुरुनिर्देशकरणशीलः स पूज्य इति । मू. (४५९) अन्नायउंछं चरई विसुद्धं, जवणद्वया समुआणं च निच्चं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org