________________
अध्ययनं-७, उद्देशकः - [नि. २९३]
१९७ स्त्रियं यथा काश्यपगोत्रे ! इत्येवमादि, 'यथार्ह' यथायथं वयोदेशैश्वर्याद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वा' ईषत्सकृद्धालपनमालपनमतोऽन्यथा लपनं, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यादिना, अन्यथा च यथा न लोकोपघात इति। मू. (३११) अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति अ।
माउलो भाइणिज्ज त्ति, पुत्ते नत्तुनिअत्ति अ॥ वृ. उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च, साम्प्रतं पुरुषमाश्रित्याह' अज्जए'त्ति सूत्रं, आर्यकः प्रार्यकश्चापि बप्पश्चल्लुपितेति च, तथा मातुल भागिनेयेति पुत्र नप्त इति च, इह भावार्थ: स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः पितृव्योऽभिधीयते इति सूत्रार्थः ।। मू. (३१२) हे भो हलित्ति अन्नित्ति, भट्टे सामिअ गोमि।
- होल गोल वसुलि ति, पुरिसं नेवामालवे॥ वृ. किंच-'हे भो'त्ति सूत्रं, हे भो हलेति । अन्नेत्ति भर्तः । स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति, अत्रापि भावार्थः पूर्ववदेवेति सूत्रार्थः । मू.(३१३) नामधिज्जेण नं बूआ, पुरिसगुत्तेण वा पुणो।
जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा.॥ वृ.यदि नैवमालपेत्, कथं तालपेदित्याह-'नामधिज्जेण'त्ति सूत्रं, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ।। म. (३१४) पंचिंदिआण पाणाणं, एस इत्थी अयं पमं।
जाव नं न विजाणिज्जा, ताव जाइत्ति आलवे। वृ.उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह'पंचिंदिआण'त्ति सूत्रं, ‘पञ्चेन्द्रियाणां' गवादीनां प्राणिनां 'कचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जाति'मिति जातिमाश्रित्यालपेत्, अस्माद्गोरूपजातात्किय रेणेत्येवमादि, अन्यथाअ लिङ्गव्यत्ययसंभवान्मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषाः आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदम्-जइ लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसित्थिनिद्देसो पयट्टइ, जहा पत्थरो मट्टिआ करओ उस्सा मुम्मरो जाला वाओवाउली अंबओ अंबिलिआ किमिओ जलूया मक्कोडाओ कीडिआ भमरओ मच्छिया इच्चेवमादि ?, आयरिओ आह-जनवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति न एत्थ दोसो, पंचिंदिएसु पुन न एयमंगीकीरइ, गोवालादीणविन सुदिट्ठधम्मत्ति विपरिणा-मसंभवाओ, पुच्छिअसामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः ।। मू. (३१५) तहेव मानुसं पसुं, पक्खि वावि सरीसवं ।
थूले पमेइले वझे, पायमित्ति अ नो वए॥ . वृ.किंच-'तहेव'त्ति सूत्रं, तथैव' यथोक्तं प्राक् 'मनुष्यम्' आर्यादिकं पशुम्' अजादिकं 'पक्षिणं वापि' हंसादिकं 'सरीसृपम्' अजगरादिकं 'स्थूलः' अत्यन्तमांसलोऽयं मनुष्यादिः तथा 'प्रमेदुरः' प्रकर्षेण भेदःसंपन्न तथा वध्यो' व्यापादनीयः पाक्य इति च नो वदेत्, 'पाक्यः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org