________________
१९६
दशवैकालिक - मूलसूत्रं - ७ /-/ ३०४ वृ. 'तहेव 'त्ति सूत्रं, तथैव 'परुषा भाषा' निष्ठुरा भावस्नेहरहिता 'गुरुभूतोपघातिनी' महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रतवेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभावमङ्गीकृत्य न वक्तव्या, 'यतो' यस्या भाषायाः सकाशात् 'पापस्यागमः ' अकुशलबन्धो भवतीति सूत्रार्थः ॥
मू. (३०५ )
नहेव काणं काणे पिंडगं पंडगे त्ति वा । वाहिअं वा वि रोगिति, तेणं चोरे त्ति नो वा ।
वृ. 'तहेव' त्ति सूत्रं, तथैवेति पूर्ववत्, 'काणं' ति भिन्नाक्षं काण इति, तथा 'पण्डकं' नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत्, अप्रीतिलज्जानाशस्थिर रोगबुद्धिविराधनादिदोषप्रसङ्गादिति गाथार्थ: ॥
मू. ( ३०६ )
एएणऽत्रेण अद्वेणं, परो जेणुवहम्मइ ।
आयारभावदोसन्नू, न तं भासिज्ज पन्त्रवं ॥
वृ. 'एएण' त्ति सूत्रं, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोषहन्यते, येन केनचित्प्रकारेणे । आचारभावदोषज्ञो यतिर्न तं भाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः ॥ तहेव होले गोलित्ति, साणे वा वसुलित्ति अ ।
मू. ( ३०७ )
दमए दुहुए वावि, नेवं भासिज्ज पन्नवं ॥
वृ. 'तहेव 'त्ति सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान्। इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः ॥
मू. (३०८) अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति, धूए नत्तुनिअत्ति अ ॥
वृ. एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याह-'अज्जिए'त्ति सूत्र, आर्जिके प्रार्जिके वापि अम्बमातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नप्त्रीति च । एतान्यामन्त्रणवचनानि वर्तन्ते तत्र मातुः पितुर्वा माताऽऽर्यिका, तस्या अपि याऽन्या माता सा प्रायिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थ: ।।
>
मू. (३०९) हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इत्थिअं नेवमालवे ॥
तथा
वृ. किं च - 'हले हले 'त्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा भट्ट स्वामिनि गोमिनि । गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरव- कुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगर्हातत्प्रद्वेषप्रवचनलाघवादय इति सूत्रार्थः ॥
मू. ( ३१० )
नामधिज्जेण नं बूआ, इत्थीगुत्तेण वा पुणो ।
जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ॥
वृ.यदि नैवमालपेत् कथं तर्ह्यलपेदित्याह - 'नामाधिज्जेणं' ति सूत्रं, 'नामधेयेने 'ति नाम्नैव एनां ब्रूयात्स्त्रियं क्वचित्कारणे यथा देवदत्ते ! इत्येवमादि ! नामास्मरणादौ गोत्रेण वा पुनर्ब्रूयात्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International