________________
१९४
दशवैकालिक-मूलसूत्र-७/-/२९४ पूर्ववत्तावद्यावत्सूत्रा-नुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू. (२९४) चउण्हं खलु भासाणं, परिसंखया पन्नवं ।
. दुण्हं तु विनयं सिक्खे, दो न भासिज्ज सव्वसो॥ वृ.चतुसृणां खलु भाषाणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति, भाषाणां' सत्यादीनां परिसंख्याय' सर्वैः प्रकारैत्विा, स्वरूपमिति वाक्यशेषः, 'प्रज्ञावान्' प्राज्ञो बुद्धिमान्, साधुः, किमित्याह-'द्वाम्यां' सत्यासत्यामृषाभ्यो तुरवधारणेद्वाभ्यामेवाभ्यां 'विनयं' शुद्धप्रयोगं विनीयतेऽनेन कर्मेतिकृत्वा 'शिक्षेत' जानीयात्, 'द्वे' असत्यासत्यामृषेन भाषेत 'सर्वशः' सर्वैः प्रकारैरिति सूत्रार्थः ।। मू.(२९५) जा अ सच्चा अवत्तव्वा, सच्चामोसा अ जा मुसा।
जा अ बुद्धहि नाइन्ना, न तं भासिज्ज पन्नवं । वृ.विनयमेवाह-'जा अ सच्च'त्ति सूत्रं, या च सत्या पदार्थतत्त्वमङ्गीकृत्य अवक्तव्या' अनुच्चारणीया सावद्यत्वेन, अमुत्र स्थिता पल्लीत कौशिकभाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णैव, चशब्दस्य व्यवहितः संबन्धः, या च 'बुद्धैः' तीर्थकरगणधरनाचित असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, 'नैनां भाषेत' नेत्थंभूतां वाचं समुदाहरेत् 'प्रज्ञावान्' बुद्धिमान् साधुरिति सूत्रार्थः ।। मू.(२९६) असच्चामोसं सच्चं व, अनवज्जमकक्कसं।
समुप्येहमसंदिद्धं, गिरं भासिज्ज पन्नवं। वृ.यथाभूताऽवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह-'असच्चमोसं'ति सूत्रम्, 'असत्यामृषाम्' उक्तलक्षणां 'सत्यां च' उक्तलक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह-'असावद्याम्' अपापाम् 'अकर्कशाम्' अतिशयोक्त्या ह्यमत्सरपूर्वां 'संप्रेक्ष्य' स्वरपोपकारिणीति बुद्धयाऽऽलोच्य असंदिग्धां' स्पष्टामक्षेपेण प्रति-पत्तिहेतुं 'गिरं' वाचं भाषेत' ब्रूयात् 'प्रज्ञावान्' बुद्धिमान् साधुरिति सूत्रार्थः॥ मू. (२९७) एअंच अट्ठमन्नं वा, जंतु नामेइ सासयं ।
स भासं सच्चमोसंपि, तंपि धीरो विवज्जए॥ वृ.साम्प्रतं सत्यासत्यमृषाप्रतिषेधार्थमाह-'एअंच'त्ति सूत्रम्, 'एतं चार्थम्' अनन्तरप्रतिषिद्धं सावद्यकर्कशविषयम् 'अन्यं वा' एवंजातीयं, प्राकृतशैल्या 'यस्तु नामयति शाश्वतं' य एव कश्चिदर्थो नामयति-अननुगुणं करोति शाश्वतं-मोक्षं तमाश्रित्य 'स' साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां 'सत्यामृषामपि' पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता तामपि 'धीरो' बुद्धिमान् 'विवर्जयेत्' न ब्रूयादिति भावः। आह-सत्यामृषाभाषया ओघत एव प्रतिषेधातथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमिति, उच्यते, मोक्षपीडाकरंसूक्ष्ममप्यर्थमङ्गीकृत्यान्तर भाषा भाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः ।। मू. (२९८) वितहपि तहामुक्ति, जं गिरं भासए नरो।
तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए? ॥ वृ.साम्प्रतं मृषाभाषासंरक्षणार्थमाह-'वितहंपि'त्ति सूत्रं, 'वितथम्' अतथ्यं तथामूर्त्यपि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org