________________
अध्ययनं -७, उद्देशकः - [नि. २८८ ]
१९३
यद्दर्शनादीनामादिश्यमानानां प्रधानं सा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तप: प्रधानभावशुद्धिः - आन्तरतपोऽनुष्ठानाराधनमिति । कथं पुनरियं प्रधानभावशुद्धिरिति ?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थ:, तेन च मले न 'विशुद्धो' मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिय-थोक्तान्येव दर्शनादीनीति गाथार्थः । उक्ता शुद्धिः इह च भावशुद्धिः सा च वाक्य- -शुद्धेर्भवतीत्याहनि. [ २८९ ] जं वक्कं वयमाणस्स संजमो सुज्झई न पुण हिंसा । न य अत्तकलुस भावो तेन इहं वक्कसुद्धित्ति ॥
"
वृ. 'यद्' यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्धयतीति निर्मल उपजायते, न पुनर्हिसा भवति कौशिकादेवि, न चात्मनः कलुषभावः कालष्यं दुष्टाभिसंधिरूपं संजायते, तेन कारणेन 'इह' प्रवचने वाक्यशुद्धिर्भावशुद्धेर्निमित्तमित्यतोऽन्न प्रयतितव्यमिति गाथार्थः ॥ नि. [२९०] वयणविभत्तीकुसलस्स संजमंमी समुज्जुयमइस्स । दुब्भासिएण हुज्जा हु विराधना तत्थ जइअव्वं ॥
वृ. अ'वचनविभक्ति कुशलस्य' वाच्येतरवचनप्रकारभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु) द्यतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिद्दुर्भाषितेन कृतेन भवेत् विराधना - परलोकपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं' प्रयत्न: कार्य इति गाथार्थः ॥
आह-यद्येवमलमनेनैव प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद्, आह चनि. [२९१] वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो ।
जइवि न भासइ किंची न चेव वयगुत्तयं पत्तो ॥
वृ.‘वचनविभक्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किञ्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवाग्गुप्त एवेति गाथार्थः ॥ व्यतिरेकमाह
नि. [२९२] वयणविभत्तीकुंसलो वओगयं बहुविहं वियाणंतो । दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो ॥
वृ. 'वचनविभक्तिकुशलो' वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदभिन्नं विजानन् दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः ।। साम्प्रतं वचनविभक्तिकुशलस्यौधतो वचनविधिमाह
नि. [२९३]
पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे ।
अचक्खुओ व नेतारं, बुद्धिमन्नेउअ ते गिरा ॥
वृ-व्याख्या-'पूर्वं' प्रथममेव वचनोच्चारणकाले 'बुद्धया प्रेक्ष्य' वाच्यं दृष्ट्वा पश्चाद्वक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, दृष्टान्तमाह- 'अचुक्षुष्मानिव' अन्ध इव 'नेतारम्' आकर्षकं 'बुद्धिमन्वेतु ते गीः' बुद्धयनुसारेण वाक्यप्रवर्ततामिनि श्लोकार्थः ॥
उक्त नामनिष्पन्नो निक्षेप:, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्च:
27/13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org