________________
-
-
अध्ययनं-७, उद्देशकः - [नि. २७७] याऽन्यत्रापि भावना कार्येति । याचनी यथा भिक्षां प्रयेच्छेति तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कश्चिदुक्तः साधुसकाशं गच्छाम इति, स आह-शोभनभिदमिति । नि. [२७८] अनभिग्गहिआ भासा भासा अ अभिग्गहमि बोद्धव्वा ।
संसयकरणी भासा वायड अव्वायडा चेव॥ वृ.अनिभगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत्, भाषा चाभिग्रहे बोद्धव्याअर्थमभिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धरवमित्यादिवत्, व्याकृता-स्पष्टा प्रकटा देवदत्तस्यैषभ्रातेत्यादिवत्, अव्याकृता चैवअस्पष्टाऽप्रकटार्था बालकादीनां थपनिकेत्यादिवदिति गाथार्थः । उक्ता असत्यामृषा - नि.[२७९] सव्वावि असा दुविहा पज्जता खल तहा अपज्जत्ता।
पढमा दो पज्जत्ता उवरिल्ला दो अपज्जत्ता ।।। वृ.सर्वाऽपि च 'सा' सत्यादिभेदभिन्ना भाषा द्विविधा-पर्याप्ता खलु तथाऽपर्याप्ता, पर्याप्ता या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्वयवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाह-प्रथमे द्वे भाषे सत्यामृषे पर्याप्ते, तथास्वविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्याप्ते, तथास्वविषयव्यवहारासाधनादिति गाथार्थः ।। उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाहनि. [२८०] सुअधम्मे पुन तिविहा सच्चा मोसा असच्चमोसा अ।
सम्मद्दिट्ठी उसुओवउत्तु सो भासई सच्चं ॥ वृ. 'श्रुतधर्म' इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा-सत्या मृषा , असत्यामृषा चेति, तत्र 'सम्यग्दृष्टिस्तु' सम्यग्दृष्टिरेव 'श्रुतोपयुक्त' इत्यागमे यथावदुपयुक्तो यः स भाषते 'सत्यम्' आगमानुसारेण वक्तीति गाथार्थः ।। . नि. [२८१] सम्मद्दिट्ठी उ सुअंमि अनुवउत्तो अहेउगं चेव ।
जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव ।। वृ.'सम्मद्दिट्टी' सम्यग्दृष्टिरेव सामान्येन 'श्रुते' आगमे अनुपयुक्तः प्रमादा-द्यत्किचिद् 'अहेतुकं चैव' युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञाना-दरेपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवे'त्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घृणाक्षरन्यायातसंवादेऽपि सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति। नि. [२८२] हवइ उ असच्चमोसा सुअंमि उवरिल्लए तिनाणंमि।
जं उवउत्तो भासइ एत्तो वोच्छं चरित्तंमि ॥ वृ.भवति तु असत्यामृषा श्रुते' आगम एव परावर्तनादि कुर्वतस्तस्यामन्त्रण्यादिभाषारूपत्वात्तथा 'उपरितने' अविधमनःपर्यायकेवललक्षणे 'त्रिज्ञान' इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आमन्त्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्ध्वं वक्ष्ये 'चारित्र' इति चारित्रविषयां भावभाषामिति गाथार्थः ॥
नि. [२८३] पढमबिइआ चरित्ते भासा दो चेव होंति नायव्वा। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org