SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० समुद्रवत्तडाग इति गाथार्थः ॥ उक्ता सत्या, अधुना मृषामाह नि. [२७५] दशवैकालिक - मूलसूत्रं - ७/-/ २९४ कोहे माने माया लोभे पेज्जे तहेव दोसे अ । हासभए अक्खाइय उवघाए निस्सिआ दसमा ॥ वृ. क्रोधे इति क्रोधनिसृता, यथा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिसृता मानाध्यातः क्वचित्केनचिदल्पधनोऽपि पृष्ट आह- महाधनोऽहमिति, मायानिसृता मायाकारप्रभृतय आहुःनष्टो गोलक इति, लोभनिसृता वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिसृता अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिसृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिसृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि गृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिसृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलाप:, उपघातनिसृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः ॥ उक्ता मृषा । नि. [ २७६ ] उप्पन्नविगयमीसग जीवमजीवे अ जीवअज्जीवे । तहऽनंतमीसगा खलु परित्त अद्धा अ अद्धाद्धा ॥ वृ. 'उत्पन्नविगतमि श्रके 'ति उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषात्वात्, श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्व (च)मृषात्वसिद्धेः सर्वथा क्रियाभावेन सर्वथा व्यत्पयादित्येवं विगतादिष्वपि भावनीयमिति, तथाच विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्द्य दश वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, जीवमिश्रा - जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवमिश्रा च - अजीवविषया सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति- जीवाजीवविषया सत्यामृषा यथा तस्मिन्नैव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकभावे । 'तथानन्तमिश्रा खल्वि 'ति अनन्तविषया सत्यामृषा यथा मूलकन्दादौ परीतपत्रादिमत्यन्तकायोऽयमित्यभिदधतः । अद्धामिश्रा - कालविषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तते इति ब्रवीति, अद्धद्धमिश्र च दिवसरजन्येकदेशः अद्धद्धोच्यते, तद्विषया सत्यामृषा यथा कस्मिश्चित् ' प्रयोजने स्वरयन् प्रहरमात्र एव मध्याह्न इत्याह । एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः । उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह नि. [२७७] आमंतणि आणवणी जायणि तह पुच्छणी अ पन्नवणी । पच्चक्खाणी भासा भासा इच्छानुलोमा अ ॥ वृ. आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभापात्रयलक्षणवियोंगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमत्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं स्वबुद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy