________________
१८३
अध्ययनं-६,उद्देशकः - नि. २६८]
तिविहेण करणजोएणं, संजया सुसमाहिआ॥ मू. ( २६६) वणस्सइ विहिंसंतो, हिंसई अतयस्सिए।
तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे। मू. (२६७) तम्हा एअंविआणित्ता, दोसं दुग्गइवड्डणं।
वणस्सइसमारंभं, जावजीवाइ वज्जए॥ वृ. 'वणस्सइ' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त एव ।। मू. (२६८) तसकायं न हिंसंति, मनसा वयस कायसा।
तिविहेण करणजोएणं, संजया सुसमाहिआ। वृ. साम्प्रतं द्वादशस्थानविधिरुच्यते-'तसकाय'त्ति सूत्रं, 'त्रसकायं' द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन-तदहितचिन्तनादिना 'त्रिविधेन करणयोगेन' मनःप्रभृतिभिः करणादिना प्रकारेण संयताः' साधवः ‘सुसमाहिताः' उद्युक्ता इति सूत्रार्थः ।। मू. (२६९) तसकायं विहिंसंतो, हिंसई उ तयस्सिए।
तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे। वृ.तत्रैव हिंसादोषमाह-'तसकाय'ति सूत्रं, त्रसकायं विहिंसेन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्' त्रसान् विविधांश्च प्राणिनःतदन्यद्वीन्द्रियादीन्, चशब्दात्स्थावरांश्च पृथिव्यादीन्, 'चाक्षुषानचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः॥ मू. ( २७०) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं। .
तसकायसमारंभ, जावजीवाइ वज्जए। वृ.यस्मादेवं तम्ह'त्ति सूत्रं, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रयकायसमारम्भं तेन तेन विधिना 'यावज्जीवया' यावज्जीवमेव वर्जयेदिति। मू. (२७१) जाइं चत्तारि भुज्जाइं, इसिण्णाऽऽहारमाइणि ।
ताइंतु विवज्जतो, संजमं अनुपालए॥ वृ.उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः यथोक्तम्-'अकप्पो गिहिभायण'मित्यादि, तत्राकल्पो द्विविधः-शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनिर्युक्तादिनाऽऽनीतमाहारादिन कल्पत इति, उक्तं च
"अनहीआ खलु जेणं पिंडेसणसेज्जवत्थपाएसा। तेनानियाणि जतिणो कप्पंति न पिंडमाईणि ॥१॥ उउबलुमि न अनला वासावासे उ दोऽवि नो सेहा।
दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ॥२॥" अकल्पस्थापनाकल्पमाह-'जाई'त्ति सूत्रं, यानि चत्वारि 'अभोज्यानि संयमापकारित्वेनाकल्पनीयानि 'ऋषीणां' साधूनाम् 'आहारादीनि' आहारशय्यावस्त्रपात्राणिअतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org