________________
१६०
दशवैकालिक-मूलसूत्र-५/१/१६० वृ. 'तं उक्खिवित्तु' इति सूत्रं, 'तद्' अस्थ्यादि उत्क्षिप्य हस्तेन यत्र क्वचित्र निक्षिपेत्, तथा 'आस्येन' मुखेन नोज्झेत्, मा भूद्विराधनेति, अपितु हस्तेन गृहीत्वा 'तद्' अस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थः ।। मू.(१६१) एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ।
जयं परिझुविज्जा, परिझुप्प पडिक्कमे ॥ वृ. 'एगंत'त्ति सूत्रं, एकान्तमवक्रम्य अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामेदिति, भावार्थः पूर्ववदेवेति सूत्रार्थः ।।। मू. (१६२) सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्तु।
सपिंडपायमागम्म, उंडुअंपडिलेहिआ॥ वृ.वसतिमधिकृत्य भोजनविधिमाह-'सिआय'त्ति सूत्रं, 'स्यात्' कदाचित् तदन्यकारणभावे सति भिक्षुरिच्छेत् ‘शय्यां' वसतिमागम्य परिभोक्तुं, तत्रायं विधिः-सह पिण्डपातेनविशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं-स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः॥ मू. (१६३) विनएणं पविसित्ता, सगासे गुरुणो मुनी।
इरियावहियमायाव, आगओ अ पडिक्कमे॥ वृ.तत ऊर्ध्वं 'विनएण'त्ति सूत्रं, विशोध्य पिण्डं बहिः ‘विनयेन' नैषधिकीनमःक्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, 'ईर्यापथिकामादाय' "इच्छामी पडिक्कमिउं इरियावहियाए" इत्यादि पठित्वा सूत्रं, आगतश्च गुरुसमीपं प्रतिक्रामेत्-कायोत्सर्ग कुर्यादिति सूत्रार्थः ॥ मू. (१६४) आभोइत्ताण नीसेसं, अईआरं जहक्कमं।
गमनागमने चेव, भत्तपाने व संजए। वृ.'आभोइत्ताण'त्ति सूत्रं, तत्र कायोत्सर्गे 'आभोगयित्वा' ज्ञात्वा नि:शेषमतिचारं यथाक्रम' परिपाट्य, केत्याह-'गमनागमनयोश्चैव' गमने गच्छत आगमन आगच्छतो योऽतिचारः तथा 'भक्तपानयोश्च' भक्ते पाने च योऽतिचार: तं 'संयतः' साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः॥ मू.(१६५) उज्जुप्पन्नो अनुब्विग्गो, अव्वक्खित्तेन चेअसा।
आलोए गुरुसगासे, जं जहा गहिअं भवे ॥ वृ. विधिनोत्सारिते चैतसिमन् ‘उज्जुप्पन्नं'त्ति सूत्रं, 'ऋजुप्रज्ञः' अकुटिलमतिः सर्वत्र 'अनुद्विग्नः' क्षुदादिजयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोनिवेदयदिति भावः, 'यद्' अशनादि 'यथा' येन प्रकारेण हस्तदा(घाव) नादिना गृहीतं भवेदिति सूत्रार्थः ॥ मू.(१६६) न सम्ममालोइअंहुज्जा, पुट्विं पच्छा व जंकडं।
पुणो पडिक्कमे तस्स, वोसट्टो चिंतए इमं॥ वृ.तदनु च 'न संमं'ति सूत्रं, न सम्यगालोचित्तं भवेत् सूक्ष्मम् अज्ञानात्-अनाभोगेनानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org