________________
१४४
-
-
दशवैकालिक-मूलसूत्र-५/-/३५ नि.[२४४] नवचेवट्ठारसगा सत्तावीसा तहेव चउपन्ना।
नउई दो चेव सया सत्तरिआहुति कोडीणं॥ नि.[२४५] रागाई मिच्छाई रागाई समणधम्म नाणाई।
. नव नवसत्तावीसा नवनउईए य गुणगारा ।। वृ.पिण्डश्चैषणा च द्विपदंनामतु' द्विपदमेव विशेषभिधानं तस्य' उक्तसंबन्धस्याध्ययनस्य ज्ञातव्यं, चतुश्चतुर्निक्षेपाभ्यां नामादिलक्षणाभ्यां प्ररूपणां तस्य' पदद्वयस्य कर्तव्येति गाथार्थः ।। अधिकृतप्ररूपणामाह-नामस्थापनापिण्डो द्रव्ये भावे च भवति ज्ञातव्यः, पिण्डशब्द: प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह-गुडौदनादिः 'द्रव्य' मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः। अत्रैवान्वर्थमाह-'पिडिसंघाते' धातुरितिशब्दवित्समयः, यस्मात्ते क्रोधादय उदिताः सन्तो विपाकप्रदेशादयाभ्यां संहता एव संसारिणं संघातयन्ति-जीवंयोजयन्तीत्यर्थः, केनेत्याह-कर्मणाऽष्टप्रकारेण-ज्ञानवरणीयादिना, अत: क्रोधादयः पिण्ड इति गाथार्थः ।। प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसरः
तत्र क्षुण्णात्वान्नामस्थापने अनादृत्य द्रव्यैषणामहाद्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणाद्रव्यैषणा, सचित्तानां द्विपदचतुष्पदापदानां यथासंख्यं नरंगजदुमाणामिति, कार्षापणग्रहणचित्तद्रव्यैषणा अलङ्कतद्विपदादिगोचरमिश्रद्रव्यैषणा च द्रष्टव्येति गाथार्थ :॥ भावैषणामाह-भावैषणातुपुनर्द्विविधा, प्रशस्ता अप्रशस्ताचज्ञातव्या, एतदेवाह-'ज्ञानादीना'मिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाथार्थः।।
प्रकृतयोजनामाह-'भावस्य' ज्ञानादेरुपकारित्याद् 'अत्र' प्रक्रमे द्रव्यैषणयाऽधिकारः, 'तस्याः' पुनद्रव्यैषणाया: 'अर्थयुक्तिः' हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनियुक्तिरिति गाथार्थः ॥ सा च पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्याते । अधुना प्रकृताध्ययनावतारप्रपञ्चमाह-पिण्डैषणा च सर्वा' उद्गमादिभेदभिन्ना संक्षेपेणावतरतिनवसुकोटीषु, ताश्चेमा:नहन्ति न पचति नक्रीणाति स्वयं, तथा न घातयति त पाचयति न क्रापयत्यन्येन, तथाघ्नन्तं वा पचन्तं वाक्रीणन्तंवा नसमनुजानात्यन्यमिति नव। एतदेवाह-कारणानुमतिभ्यां नवेति गाथार्थः । सानवधा स्थिता पिण्डैषणा द्विविधाक्रियते-उद्गमकोटी विशोधिकोटीच, तत्रषट्सुहननघातनानुमोदनपचनपाचनानुमोदनेषुप्रथमा-उद्गमकोटी अविशोधिकोट्यवतरति, क्रीतत्रितये क्रयणक्रापणानुमतिरूपे विशोधिस्तु-विशोधकोटी द्वितीयेति गाथार्थः ।।
एतदेव व्याचिख्यासुराह भाष्यकार:-'कोटीकरण'मिति कोट्येव कोटीकरणं, कोटी(कणं) द्विविधम्-उद्गमकोटी विशोधिकोटीच, उद्गमकोटी षट्कं-हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी-क्रीतत्रीतयनिष्पन्ना अनेकधाओघौद्देशिकादिभेदेनेतिगाथार्थः॥
षट्कोट्याह-कर्म-संपूर्णमेव औद्देशिकचरमत्रित्यं-कमौद्देशिकस्य पाखण्डश्रमणनिर्ग्रन्थविषयं, पूति-भक्तपानपूत्येव मिश्रग्रहणात्पाखण्डश्रमणनिर्ग्रन्थमिश्रजातं चरमप्राभृतिका बादरेत्यर्थः, अध्यवपूरक इत्यविशोधिरित्येतत्षटं। विशोधिकोटी भवति शेषा-ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति गाथार्थः । इहैव रागादियोजनया कोटीसंख्यामाह-नवचैवकोट्यः तथाऽष्टादशकं कोटीनां तथा सप्तविंशति: कोटीनां तथैव चतुष्पञ्चाशत्कोटीनां तथा नवति: कोटीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org