________________
१२०
दशवैकालिक-मूलसूत्रं-४/-/३२ वृ.अभयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः, कुत इत्याह-'कारणविरहात्' अकारणत्वात्, यथैवाकाशम्-आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम् एतदेव दर्शयतिमृन्मयघटन्त्वादि, यथा मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा, नित्य इति दर्शितम्। आहअस्मिन् द्वारे सति 'अमयो नतु मृन्मय एव घट' इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते, भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न(वा) वयमभिप्राय विद्म इति। अन्ये त्वभिदधि-अन्यकर्तृकैवासौ गाथेति गाथार्थः ।। व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम्, अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार:भा.[५५] साफल्लदारमहुणा निच्चनिच्चपरिणामिजीवम्मि।
होइ तयं कम्माणंइहरेगसभावओऽजत्तं॥ वृ.साफल्यद्वारमधुना-तदेतद्वयाख्याते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम्, केषामित्याह-कर्मणां-कुशलाकुशलानां, कालभेदेन कर्तृभोक्तृपरिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, इतरथा' पुनर्यद्येवं नाभ्युपगम्यते तत एकस्वभावत्वतः कारणादयुक्तं 'तत्' कर्मणांसाफल्यमिति, एतदुक्तं भवति-यदि नित्य आत्मा कर्तृस्वभाव एव कृतोऽस्य भोगः?, भोक्तृस्वभावत्वे चाकर्तृत्वं, क्षणिकस्य तु कालद्वयाभावदेवैतदुभयमनुपपन्नम्, उभये च सति कालान्तर-फलप्रदानेन कर्म सफलमिति गाथार्थः॥द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम्, अधुना परिणामद्वारमहभा.[५६] जीवस्स उपरिमाणं वित्थरओ जावलोगमेत्तं तं।
ओगाहणा यसुहुमा तस्स पएसा असंखेज्जा।। वृ.जीवस्य तु परिमाणं विततस्य 'विस्तरतो' विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्घातचतुर्थसमये भवति, तत्रावगाहना च 'सूक्ष्मा' विततैकेकप्रदेशरूपा भवति, 'तस्य' जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः॥
अनेकेषां जीवानां गणनापरिमाणमाहभा.[५७] पत्थेण व कुलएण वजह कोइ मिणेज्ज सव्वधन्नाई।
एवं मविज्जमाणा हवंति लोगा अनंता उ।। वृ.'प्रस्थेनवा' चतुःकुडवमानेन कुडवेन वा' चतु:सेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् 'सर्वधान्यानि' व्रीह्यादीनिएवंमीयमाना असद्भावस्थापनया भवन्ति लोकाअनन्तास्तु, जीवभृता इति भावः । आह-यद्येवं कथमेकस्मिन्नेव ते लोके माता इति?, उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रान्ता व्यवस्थिताः, इहतु प्रत्येकावगाहनयाचिन्त्यन्ते इति नदोषः, दृष्टंच बादरद्रव्याणामपिप्रदीपप्रभापरमाण्वादीनांतथा परिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः।।व्याख्यातं द्वितीयमूलद्वारगाथायां परिमाणद्वारं, तद्वयाख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति।
साम्प्रतं निकायपदं व्याचिख्यासुराहभा.[५८] नामंठवणसरीरे गई निकायत्थिकाय दविए य।
माउगपज्जवसंगहभारे तह भावकाए य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org