________________
अध्ययनं-३, उद्देशकः- [नि.२०६] दुक्खेहि अभिभूया किमंगपुण तिरियनारया?, एयारिसंकहकहेमाणो धम्मकही सोयारस्ससंवेगमुप्पाएइ, एसा परलोय-संवेयणी गयत्ति गाथाभावार्थः । साम्प्रतं शुभकर्मोदयाशुभकर्मक्षयफलकथनतः संवेजनीर-समाह-'वीर्यवैक्रियर्द्धि:' तपःसामर्थोद्भवा आकाशगमनजङ्गाचारणादिवीर्यवैक्रिय-निर्माणलक्षणा 'ज्ञानचरणदर्शनानां तथार्द्धिः' तत्र ज्ञानर्द्धि: 'पभू नं भंते ! चोद्दसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं विउव्वित्तए?, हंता पहू विउव्वित्तए' तहा
"जं अन्नाणी खवेइ बहुयाहिवासकोडीहिं। ___तं नाणी तिहिंगुत्तो खवेइ ऊसासमित्तेणं॥" इत्यादि, तथा चरणर्द्धि: नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इत्यादि, दर्शनार्द्धिः । प्रशमादिरूपा, तथा
... "सम्मदिट्ठी जीवो विमाणवज्जं न बंधए आउं।
जइविन सम्मत्तजढो अहव न बद्धाउओ पुट्विं॥" इत्यादि, उपदिश्यते-कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति - गाथार्थः । उक्ता संवेजनी, निर्वेदनीमाह-पापानां कर्मणां चौर्यादिकृतानामशुभविपाक:-दारुणपरिणामः कथ्यते यत्र-यस्यां कथायामिह च परत्र च लोके-इहलोके कृतानि कर्माणि इहलोक एवोदीर्यन्ते इति, अनेन चतुर्भङ्गिकामाह, कथा तुनिर्वेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निर्वेदनी एष गाथाक्षरार्थः । भावार्थस्तुवृद्धविवरणादवसेयः, तच्चेदम्__इदानि निव्वेयणी, सा चउचिहा, तंजहा-इहलोए दुच्चिण्णा कम्मा इहलोए चेव दुहविवागसंजुत्ता भवन्तित्ति, जहाचोराणं पारदारियाणंएवमाइएसा पढमा निव्वेयणी, इयाणि बिइया, इहलोए दुच्चिण्णा कम्मा परलोएदुहविवागसंजुत्ता भवन्ति, कहं?, जहा नेरइयाणं अन्नम्मि भवेकयंकम्म निरयभवे फलं देइ, एसा बिइया निव्वेयणी गया, इयाणी तइया, परलोए दुच्चिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कहं?, जहा बालप्पभितिमेव अंतकुलेसु उप्पना स्वयकोढादिहिरोगेहि दारिदेणय अभिभूयादीसन्ति, एसातइयाणिव्वेयणी, इयाणिचउत्थी णिव्वेयणी, परलोएदुच्चिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, कहं ?, जहा पुव्वि दुच्चिण्णेहि कम्मेहिं जीवा संडासतुंडेहिंपक्खीहिंउववज्जंति, तओतेणरयपाउग्गाणिकम्माणि असंपुण्णाणितानिताएजातीए पूरिति, पूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निव्वेयणी गया, एवं इहलोगो परलोगो वा पन्नवयं पडुच्च भवइ, तत्थ पन्नवयस्स मनुस्सभवो इहलोगो अवसेसाओ तिन्निवि गईओ परलोगोत्ति गाथाभावार्थः। __इदानीमस्याएवरसमाह-स्तोकमपि प्रमादकृतम्-अल्पमपि प्रमादजनितं कर्म-वेदनीयादि 'साहिज्जई'त्ति कथ्यते यत्र नियमात्-नियमेन, किंविशिष्टमित्याह-'प्रभूताशुभपरिणाम' बहुतीव्रफलमित्यर्थः, यथा यशोधरादीनामिति कथाया निर्वेदिन्या रसः-एष निष्यन्द इति - . गाथार्थः संक्षेपतः। ___ संवेगनिर्वेदबन्धनमाह-सिद्धश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः, एतत्प्ररूपणं, संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः कुमानुषत्वं च निर्वेद इति गाथार्थः, आसां कथानां या यस्य कथनीयेत्येतदाह-विनयेन चरति वैनयिकः-शिष्यस्तस्मै प्रथमतया-आदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org