________________
ओघनियुक्तिः मूलसूत्रं नारतः, इयं तु प्रथमदिवस एव दीयते, प्रभूत-दिवसलभ्या सती स्वल्पदिवसलभ्या कृतेत्यर्थः, एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात कथञ्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाहमू. (४) अरहते वंदित्ता चउदसपुब्वी तहेव दसपुची।
एक्कारसंगसुत्तत्थधारए सव्वसाहूय॥ मू. (५) ओहेन उ निज्जुत्तिं वुच्छं चरणकरणानुओगाओ।
अप्पक्खरं महत्थं अनुग्गहत्थं सुविहियाणं॥ वृ.अत्राह-किमर्थशास्त्रारम्भेमङ्गलं क्रियते? इति, उच्यते, विघ्नविनायकोपशमनार्थं, तथाचोक्तम्"श्रेयांसि बहुविघ्नानि, भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं तच्च नामादि-भेदेन चतुर्धा, तत्रनामस्थापनेसुज्ञाने,द्रव्यमङ्गलंदध्यादि,तच्चानेकान्तिकमनात्यन्तिकंच.भाव-मङ्गलमर्हदादिनमस्कारः तच्चैकान्तिकमात्यन्तिकंचातदनेनसंबन्धेनायातस्यास्यव्याख्याक्रियते-साचलक्षणान्वितानालक्षणेति, लक्षणंचसंहितादि, “संहिता चपदं चैव" इत्यादि, तत्रास्खलितपदोच्चारणं संहिता, साचेयम् - 'अरहते वंदिता' इत्यादिका । अधुना पदानि प्रतन्यन्ते अर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथासूत्रपदान्युच्यन्ते. ओघेन तु नियुक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महार्थाम् अनुग्रहार्थं सुविहितानाम्, एतावन्ति पदानि।अधुनापदार्थः- 'अरहते' इत्यादि,अशोकाद्यष्टमहाप्रातिहार्यादिरूपांपूजामर्हन्तीत्यर्हन्तःतान्अर्हतः, 'वंदित्ता' इति वदिअभिवादनस्तुत्योः'स्तुत्वेत्यर्थः,समानकर्तृकयोःपूर्वकालेक्त्वाप्रत्ययोभवतीतिवन्दित्वा, किम ?.'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमर्हत एव वन्दित्वा?, नेत्याह'चतुर्दशपूर्विणश्च' चतुर्दशपूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तांच, वन्दित्वेति सर्वत्र क्रिया मीलनीया, किंतानेव?,नेत्याह-'तथैवदशपूर्विणश्च 'तथे तिआगमोक्तेनप्रकारेणएवेतिक्रमनियमप्रतिपादनार्थःअनेनैव क्रमेणदशपूर्विणइति,दशपूर्वाणि विद्यन्तेयेषांतेदशपूर्विणः, न केवलंतानेव, एकादशाङ्गसूत्रार्थ-धारकान्' एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशाङ्गानां सूत्रार्थों एकादशाङ्गसूत्रार्थौ तौ धारयन्ति ये तान एकादशाङ्गसूत्रार्थधारकान् । सर्वसाधूंच' इति सर्व साधयन्तीति सर्वसाधवः अथवा सर्वे च ते साधवश्च सर्वसाधवः तान् सर्वसाधूंश्च वन्दित्वा. चशब्दः समुच्चये, अथवाऽनुक्त समुच्चये. यच्च समुच्चितं तत्प्रतिपादयिष्ठामः । पदविग्रहस्तु यानि समासभानिपदानि तेषां प्रतिपादितः।
अधुना चालनाया अवसरः सा प्रतिपाद्यते, एवं व्याख्याते सत्याह परः-सर्वमेवेदं गाथासूत्रं न घटते, कथम्?,इह ओघनियुक्तिं वक्ष्ये' इतिप्रतिज्ञा,साचप्रथममेवनमस्कारसूत्रेनसंपादिता, यदुतनमस्कारोऽपि संक्षेपेणैवाभिधातव्यः,नचासौसंक्षेपेणप्रतिपादितः, अपित्वर्हन्नमस्कारएवकेवलःसंक्षेपनमस्कारोभवति, स एव कर्तव्यो, न चतुर्दशपूर्वधरादिनमस्कारः, अथ क्रियते, एवं तर्हि एकैकसया व्यक्तेर्नमसकारः कर्तव्यः, किंदशपूर्व्यादिनमस्कारेणेति, चतुर्दशपूर्विनमस्कारेणैवशेषाणांनमस्कारोभविष्यतीति, अथभेदेन क्रियते एवंतर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्योयावत्पूर्वैकदेशधराणामिति, अत्रोच्यते. यदित्थं चोद्यंक्रियतेतदविज्ञायैवपरमार्थ,कथम्?,यदुक्तं तावत्संक्षेपग्रन्थोऽयंतदत्रनमस्कारोऽपिसंक्षेपेणकर्तव्य इति,अत्रतावत्प्रतिविधीयते-येनैवसंक्षेपग्रन्थोऽयंतेनैवलक्षणेनेत्/नमस्कार:कृतः, तथाहि-सामान्येनार्हता नमस्कारोऽभिहितःनविशेषेणएकैकस्यतीर्थकरस्य,तथाभगवतामुपकारित्वान्नमस्कारः क्रियते,येऽप्यमी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org