SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ मूलं-६७५ ___ वृ. एतादृशंपूर्वोक्त स्वरूपंममसत्त्वं शठं' कुटिलंघट्टितस्य धीवरादिकृतस्योपायस्यघट्टनं-चालकं, ततस्त्वमिच्छसि मां गलेन ग्रहीतुमित्यहो। ते तव 'अह्रीकता' निर्लज्जतेति। तदेवमुक्तो द्रव्यग्रासैषणाया दृष्टान्तः, सम्प्रतिभावाग्रासैषणायामुपनयःक्रियते-मत्स्यस्थानीयःसाधुर्मासस्थानीयंभक्त पानीयंमात्स्यिकस्थानीयो रागादिदोषगणः, यथा न छलितो मत्स्य उपायशतेन तथा साधुरपि भक्तादिकमभ्यवहर. नात्मानमनुशास्तिप्रदानेन रक्षयेत् । तामेवानुशास्तिंप्रदर्शयतिमू. (६७६) बायालीसेसणसंकडंमिगहणंमि जीव। न ह छलिओ। इण्हिंजह न छलिज्जसि जंतो रागदोसेहिं॥ वृ. इहैषणाग्रहणेन एषणागता दोषा अभिधीयन्ते, ततोऽयमर्थः-द्विचत्वारिंशत्सङ्घया ये एषणादोषा गवेषणाग्रहणैषणादोषास्तैः ‘सङ्कटे' विषमे ‘ग्रहणे' भक्तापानादीनामादाने हे जीव । त्वं नैव छलितः, तत इदानींसम्प्रतिभुञानोरागद्वेषाभ्यांयथानछल्यसेतथाकर्त्तव्यं सम्प्रतितामेवभावग्रासैषणांप्रतिपादयतिमू. (६७७) घासेसणा उभावे होइपसत्था तहेव अपसत्था। अपसत्थापंचविहा तव्विवरीया पसत्था उ॥ वृ. 'भावे' भावविषया ग्रासैषणा द्विविधा, तद्यथा-प्रशस्ताऽप्रशस्ता च, तत्राप्रशस्ता पञ्चविधा संयोजनातिबहुकाङ्गारधूमनिष्कारणरूपा, तद्विपीरता संयोजनादिदोषरहिता प्रशस्ता। मू. (६७८) दव्वे भावे संजोअणा उदव्वे दुहा उबहिअंतो। भिक्खं चिय हिंडतो संजोयंतमि बाहिरिया॥ वृ.संयोजना द्विधा, तद्यथा-'द्रव्ये' द्रव्यविषया भावे' भावविषया, तत्र 'द्रव्ये' द्रव्यविषया संयोजना द्विविधा, तद्यथा-बहिरन्तश्च, तत्र यदा भिक्षार्यमव हिण्डमानः सन् क्षीरादिकं खण्डादिभिः सह रसगृद्वया रसविशेषोत्पादनाय संयोजयति एषा बाह्या' बहिर्भवा संयोजना। एनामेव स्पष्टंभावयतिमू. (६७९) खीरदहिसूवकट्टरलंभे गुडसप्पिवडगवालुंके। अंतो उतिहा पाए लंबण वयणे विभासा उ। वृ. क्षीरदधिसूपानां' प्रतीतानां कट्टरस्य-तीमनोन्मिश्रधृतवटिकारूपस्य देशविशेषप्रसिद्धस्य लाभे सति तथा गुडसर्पिर्वटकवालुकानांचप्राप्तौसत्यारसगृद्धयारसविशेषोत्पादनायानुकूलद्रव्यैः सहसंयोजना यत्करोति बहिरेव भिक्षामटन एषा बाह्या द्रव्यसंयोजना । अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति, तथा चाह- 'अन्तस्तु' अभ्यन्तरापुनःसंयोजना त्रिधा' त्रिप्रकारा, तद्यथा-पात्रेलम्बनेवदनेच, नवरं लम्बनं' कंवलः, ततोऽस्यास्त्रिविधाया अपिविभाषा' व्याख्या कर्त्तव्या, साचैवयहव्यं यस्य द्रव्यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृद्धया संयोजयति, यथा सुकुमारिकादिकं खण्डादिना सह, एषा पात्रंऽभ्यन्तरासंयोजना. यदातुहस्तगतमेवकवलतयोत्पाटितचूर्णंसुकुमारिकादिखण्डादिनासहसंयोजयति तदा कवलेऽभ्यन्तरा संयोजना, यदा पुनर्वदन कवलं प्रक्षिप्य ततःशालनकं प्रक्षिपति यद्वा मण्डकादिकं पूर्व प्रक्षिप्यपश्चाद्गुडादिकंप्रक्षिपतिएषावदनेऽभ्यन्तरासंयोजना। एषाचद्रव्यसंयोजनासमस्ताऽप्यप्रशस्ता, यतोऽनयाऽऽत्मानं रागद्वेषाभ्यां संयोजयति॥ तथा मुमेव दोषं वक्तुकाम आहमू. (६८०) संयोयणाए दोसो जो संजोएभत्तपानं तु। दव्वाई रसहेउं वाधाओ तस्सिमो होइ॥ वृ. संयोजनायां प्रागुक्त स्वरूपायामयंदोषः- ‘दव्वाईरसहेउ'न्ति, अत्रार्षत्वादादिशब्दस्यव्यत्यासेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy