________________
मूलं- ४५२
३६१
तर्हि तां 'तीव्रम्' अतिशयेन 'प्रशस्तां' प्रशस्तवर्णा श्लाघते, इतरां त्वभिनवस्थापितां दुर्वर्णाम् । एवं चोक्ते सतिगृहस्वामी साध्वमिप्रेतां धात्रीं धारयति इतरां तु परित्यजति, तथा च सति यो दोषस्तमाहमू. (४५३) उब्बट्टिया पओसं छोभग उब्भामओ य से जं तु । हा मज्झवि विग्घो विसाइ इयरीवि एमेव ॥
वृ. या अभिनवस्थापिता धात्री उद्भर्त्तिता धात्रीत्वात् च्याविता सा साधोरुपरि प्रद्वेषं कुर्यात्, तथा सति छोभगं दद्याद्-यथा-अयम् 'उद्भ्रामक:' जारोऽनया धात्र्या सह तिष्ठतीति, तथा 'से' तस्य साधोर्यत्प्रद्वेषवशात्कर्त्तव्यं वधादि यत्तदोर्नित्याभिसम्बन्धात्तदपि कुर्यात्, याऽपि चिरन्तनी सम्प्रति स्थापिता साऽपि कदाचिदेवं चिन्तयति-यतैतस्या धात्रीत्वात् च्यावनं कृतम्, एवमेव कदाचिद्दुष्टमनसा ममापि 'विघ्नो' धात्रीत्वात् च्यावनरूपोऽन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय 'विषादि' गरप्रवृत्तिं प्रयुञ्जीत । मू. (४५४) एमेव सेसिया सुवि सुयमासु करणकारणं सगिहे ।
इडी धासु य तव उव्वट्टियाण गमो ॥
वृ. अत्र षष्ठ्यर्थे सप्तमी, ततोऽयमर्थः एवमेव यथा क्षीरधात्र्यास्तथा 'शेषिकास्वपि' शेषाणामपि मज्जनादिधात्रीणां ‘सुतमातृषु' सुतमातृकल्पनानां यत् स्वयं करणं मज्जनादेर्यच्चान्यया कारणं तत् ' स्वगृहे' बालकमातृगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं, तथा च सति' अहिगरण भद्द पंता' इत्यादिगाथोक्ता दोषा वक्तव्याः, तथा तथैवक्षीरधात्रीगतेनैव प्रकारेण 'ऋद्धिषु' ऋद्धिमत्सु ईश्वरगृहेषु अभिनवस्थापितानां मज्जनादिधात्रीणां 'धाईसु य'त्ति भावप्रधानोऽयं निर्देशः पञ्चम्यर्थे च सप्तमी, ततोऽयमर्थः धात्रीत्वेभ्य उद्वर्त्तितानां च्यावितानां (गमो ) योगः 'उब्वट्टिया पओसं' इत्यादिरूपः स सकलोऽपि तथैव वक्तव्यः । अतिसङ्क्षिप्तमिदमुक्तम्, अतो विशेषत एतद्विभावयिषुः प्रथमतो मज्जनधात्रीत्वस्य करणं कारणं च तथाऽभिनवधात्र्या दोषप्रकटनं च यथा साधुः कुरुते तथा भावयति
मू. (४५५)
लोलs महीऍ धूलीऍ गुडिओ पहाणि अहव णं मज्जे । 'जलभीरु अबलनयणो अइउप्पिलणे अ रत्तच्छो ॥
वृ. एषबालो मह्यां 'लोलयति' लोटते ततो धूल्यां गुण्डितोवर्त्तते तस्मात्स्नापय, एतत्मज्जनधात्रीत्वस्य कारणम्. अथवा यदि पुनस्त्वं न पारयसि तर्ह्यहं 'मज्जामि' सपयामि, एतत्स्वयं मज्जनधात्रीत्वस्य करणम्, अथवाऽन्यथा मज्जनधात्रीत्वस्य कारणं, क्वापीश्वरगृहे काऽपि मज्जनधात्री धात्रीत्वात् स्फेटिता, साधुश्र तस्या गृहं भिक्षार्थं प्रविष्टः, तां च धात्रीत्वात्परिभ्रंशेन विषण्णां दृष्ट्रा पूर्वप्रकारेण च पृष्ट्रा कृत्वा च प्रतिज्ञामीश्वरगृहे चगत्वाऽभिनवमज्जनधात्री दोषप्रकटनायाह- 'जलभीरू' इत्यादि, अतिशयेनोत्प्लावनेप्रभूतजलप्लावननगुप्यमानो बालों गुरुरपि जातो नद्यादी जलप्रवेशे जलभीरुर्भवति, तथा निरन्तर जलेनोप्लाव्यमानः ‘अवलनयनः अवलदृष्टिजायत रक्ताक्षथ, यदि पुनः सर्वथाऽपि नमज्ज्यते न शरीरं बलमादत्तेनापि कान्तिभाग दृष्ट्या चाबला जायते, एषा च धात्री बालमतिजलोत्प्लावनेन मज्जयति ततो जलभीरुतादयां दोषा बालस्य भविष्यन्ति, तस्मान्नैषा मज्जनधात्री युक्ता, एवमुक्ते सति ताममिनवस्थापितां मज्जनधात्रीं गृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते तथा च सति त एवं प्राक्त ना 'उव्वट्टिया पओस' इत्यादिरूपा दोषावाच्याः, एवमुत्तरत्रापि प्रतिगार्थ भावना भावनीया । अथ मज्जनधात्री कथंमूतं बालं कृत्वा मण्डनधात्र्याः समर्पयति ?, तत आहमू. (४५६)
Jain Education International
अब्भंगिय संवाहिय उब्वट्टिय मज्जियं च तो बालं ।
For Private & Personal Use Only
www.jainelibrary.org