________________
मूलं - १२०
२७५
एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विभागा भागा भवन्ति । सम्प्रति सूत्रमनुस्रियते- 'तत्र' तेषु संयमस्थानादिषु वक्तव्येषु प्रथमतः संयमस्थानमुच्यते इति शेषः, 'अनन्ता' अनन्तसङ्ख्याः पाचात्यासत्कल्पनया दशलक्षणप्रमाणा ये चारित्रपर्यायाः सर्वजघन्यचारित्रसत्कविशुद्धिस्थानगता निर्विभागाभागाः ते समुदिताः संयमस्थानम्, अर्थात्सर्वजघन्यंभवति, तस्मादनन्तरं यद्वितीयंसंयमस्थानंतत्पूर्वस्मादनन्तभागवृद्धं, किमुक्तं भवति ? - प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, तस्मादपि यदनन्तरं तृतीयं तत्तोतोऽनन्तभागवृद्धम्, एवं पूर्वस्मादुत्तरोत्तराण्यनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद्भक्तव्यानियावदङ्गुलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणानिभवन्ति, एतावन्तिच समुदितानि स्थानानि कण्डकमित्युच्यते, तथा चाह
‘सङ्ख्यातीतानि' असङ्ख्येयानि तुः पुनरर्थे 'तानि' संयमस्थानानि कण्डकं भवति ज्ञातव्यं, कण्डकं नाम दमयपरिभाषयाऽङ्गुलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणा सङ्ख्याऽभिधीय तथा चोक्तं“कण्डति इत्थ भण्णइ अंगुलभागो असंखेज्जो' अस्माच्च कण्डकात्परतो यदन्यदनन्तरं संयमस्थानं भवति तत्पूर्वस्मादसङ्ख्येयभागाधिकम्, एतदुक्तं भवति- पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकादनन्तरे संयमस्थाने निर्विभागा भागा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः पराणिपुनरपिकण्डकमात्राणिसंयमस्थानानियथोत्तत्वमनन्तभागवृद्धानिभवन्ति, ततः पुनरप्येकमसङ्ख्येयभागाधिकं संयमस्थानम्, ततो भूयोऽपि ततः पराणि कण्डकमात्राजण संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्ख्येयभागाधिकं संयमस्थानम्, एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितानि असङ्ख्येयभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणिभवन्ति, ततश्चरमादसङ्ख्येयभागाधिकात् संयमस्थानात्पराणियथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयम स्थानानि भवन्ति, ततः परमेकं सङ्ख्येयभागाधिकं संयमस्थानं, ततो मूलादारभ्य यावन्तिसंयमस्थानानिप्रागतिक्रान्तानितावन्तिभूयोऽपितेनैवक्रमेणाभिधाय पुनरप्ये सङ्ख्येयभागाधिकं संयमस्थानं वक्तव्यम्, इदं द्वितीय सङ्ख्येयभागाधिकं संयमस्थानं, ततोऽनेनैव क्रमेण तृतीयं वक्तव्यम्, अमूनि चैवं सङ्घयेभागाधिकानि संयमस्थानानि तावद्भक्त व्यानि यावत्कण्ड-कमात्राणि भवन्ति, तत उक्त क्रमेण भूयोऽपि सङ्गयेयभागाधिकसंयमस्थानप्रसङ्गे सङ्ख्येयगुणाधकमेकं संळमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्ख्येयगुणाधिकं संयमस्थानं वक्त व्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव . वक्तव्यानि ततः पुनरप्यकं सङ्ख्येयगुणाधिकं संयमस्थानम्,
अमून्यप्येवं सङ्ख्येयगुणाधिकानि संयमस्थानानि तावद्भक्त व्यानियावत्कण्डकमात्राणिभवन्ति, तत उक्त क्रमेण पुनरपि सङ्घयेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्ख्येयगुणाधिक' संयमस्थानं वक्त व्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्त व्यानि, ततः पुनरप्येकमसङ्ख्येयगुणाधिकंसंयमस्थानंवक्त व्यम्, ततो भूयोऽपिमूलादारभ्यतावन्ति संयमस्थानानि तथैव वक्तव्यानि ततः पुनरपि एकमसंख्येयगुणाधिकं संयमस्थानं वक्त व्यम्, अमूनि चैवमसङ्ख्येयगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाट्या पुनरप्यसङ्घयेयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वक्त व्यंततः पुनरपि मूलादारभ्य
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org