________________
८६
आवश्यक-मूलसूत्रम् -२- ४/२१ मेहुणसन्नाए परिग्गहसन्नाए । पडिक्कमामि चउहिँ विकहाहिंइत्थीकहाए भत्तकहाए देसकहाए रायकहाए । पडिक्कमामि चउहिंझाणोहिं-अट्टेणं झाणेणंरुद्देणं०धम्मेणंसुक्केणं० ।
वृ-प्रतिक्रामामि त्रिमिःशल्यैः करणभूतैर्योऽतिचारः कृतः, तघथा-मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं-द्रव्यभावभेदमिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया-निकृतिः सैव शल्यं मायाशल्यम्, इयं भावना-यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं-दिव्यमानुषर्द्धिसंदर्शनश्रवणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिमेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि-मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्या चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिल जमालिभिषक्षूपचरकश्रावका अभिनिवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयं सामयिके उक्तं, भिक्षूपचरकश्रावककथानकं तूपरिष्टाद्वक्ष्यामः ।। प्रतिक्रमामि त्रिभिर्गौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा-ऋद्धिगौरवेण रसगौरवेणसातगौरवेण, तत्र गुरोर्भावो गौरवं, तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिनालोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्धया-नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरवं-ऋद्धिप्रात्याभिभमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः, एवं-रसेनगौरवम्-इष्टरसप्राप्तयभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं-सुखं तेन गौरवं सातप्राप्त्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गः
मथुराए अज्जमंगूआयरिया सुबहुसड्ढा तहियं च । इठ्ठरसवत्थसयणासणाइ अहियं पयच्छंति ।।१।। सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ । महुराए निद्धमणे जक्खो य तहिं समुप्पन्नो ।।२।।
जक्खायतणअदूरेण तत्थ साहूण वच्चमाणाणं । सन्नाभूमिं ताहे अनुपविसइजक्खपडिमाए ।।३।।
निल्लालेउंजीहं निप्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठोय कयाइ साहूहिं ।।४।। किमिदं? तो सो वय जीहादुट्ठो अहं तुसो मंगू । इत्थुववन्नो तम्हा तुब्भेवि एवं करे कोई ।।५।। मा सोविएवं होहिति जीहादोसेण जीह दाएमि ।
दट्टण तयं साहसुट्टतरमगारवा जाया ।।६॥ प्रतिक्रमामि तिसृभिर्विराधनाभर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा-ज्ञानविराधनयेत्यादि, तत्र विराधनं-कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org