________________
नमो नमो निम्मल दंसणस्स पञ्चम गणधर श्री सुधर्मा स्वामिने नमः
४० / आवश्यक - मूलसूत्रम् - २
(सटीकं)
प्रथमं मूलसूत्रं
मूलम् + भद्रबाहुस्वामि रचिता निर्युक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरि रचितावृत्ति अध्ययनं - २ - चतुर्विंशतिस्तव
वृ- साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विंशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते तच्चेदम्जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुरावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, सच अध्ययनसमुदायरूपो वर्तते, यत उक्तम्- 'एत्तो एक्केक्कं पुण, अज्झयणं कित्तइस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम्, इदानीं द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च- 'सावज्जजोगविरई उक्कित्तणे' त्यादि, अतो द्वितीयमुपदर्श्यते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दर्श्यन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपि योजनीयम्, इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदेन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते - अस्य चायमभिसम्बन्धःइहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम्, इह तु तदुपदेष्टृ णामर्हतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मभय उक्तः,
सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही ।
अविवज्जओ सुदिठ्ठित्ति एवमा निरुत्ताई ।।
इहापि चतुर्विंशतिस्तवेऽर्हगुणोत्कीर्तनरुपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च'भत्तीएँ जिनवराणं खिजंती पुव्वसंचिया कम्म' त्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पत्रे निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाह
नि. (१०५६) चउवीसइत्थयस्स उ निक्खेवो होइ नामनिप्फन्नो । चउवीसइस्स छक्को थयस्स उ चउव्विहो होइ ।।
वृ- चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः क इत्यन्यस्याश्रुतत्वादयमेव यदुतचतुर्विंशतिस्तव इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापि चतुर्विंशतेः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः । । अवयवार्थं तु भाष्यकार एव वक्ष्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org