________________
अध्ययनं - ३ - [ नि. १२०१ ]
ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्त्यभक्तार्थिकस्य, इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति । गतं कतिकृत्वोद्वारं, व्याख्याता वन्दनमित्यादिप्रथमा द्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते, तत्र कत्यवनतमित्याद्यं द्वारं, तदर्थप्रतिपादनायाऽऽहदोओणयं अहाजायं, किइकम्मं बारसावयं ।
नि. (१२०२/१)
वृ- अवनतिः-अवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् द्व्यवनतम् एकं यदा प्रथममेव 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निस्सीहियाए' त्ति अभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्तः 'इच्छामी' त्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणं च तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्मवन्दनं, 'बारसावयं' त्ति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन्निति समासस्तद द्वादशावर्तम्, इह च प्रथमप्रविष्टस्य षडावर्ता भवन्ति, ‘अहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कंतो ?, जत्ता भे जवणिज्जं च भे' एतत्सूत्रगर्भा गुरुचरणन्यस्तहस्तशिरः स्थापनारूपाः निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं, गतं कत्यवनतद्वारं, साम्प्रतं 'कतिशिरं' इत्येद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह
५३
नि. (१२०२ / २) चउसिरं तिगुत्तं च दुपसेवं एगनिक्खमणं ।।
वृ- चत्वारि शिरांसि यस्मिंस्तच्चतुः शिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिस्रो गुप्तयो यस्मिंतमस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन कायेनावर्तानविराधयन वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिस्तद्विप्रवेशं, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यकया निर्गच्छतः, एतच्चापान्तरालदवास्त्रयं कतिशिरोद्वारेणैवोपलक्षितमवगन्तव्यमिति गाथार्थः । ।
साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधीयते, तथा चाऽऽहनि. (१२०३ ) अवनामा दुन्नऽहाजायं, आवत्ता बारसेव उ । सीसा चत्तारि गुत्तीओ, तिन्नि दो य पवेसणा ।। एनिक्खमणं चेव, पणवीसं वियाहिआ । आवस्सगेहिं परिसुद्धं, किइकम्मं जेहि कीर ।।
(नि. (१२०४)
बृ- गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पञ्चिविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम् अन्यथा द्रव्यकृतिकर्म भवति ।। आह च
नि. (१२०५ ) किइकम्मंपि करिंतो न होइ किइकम्मनिज्जराभागी । पणवीसामन्नयरं साहू ठाणं विराहिंतो ।।
वृ- ‘कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम्' आवश्यकानामन्यतरत साधुः स्थानं विराधयन, विद्यादृष्टान्तोऽन्न, यथा हि विद्या विकलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलकत्वादेवेति गाथार्थः । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org