SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -३- [नि. ११३८] अत्र च रूपकल्पं भावलिङ्गं टङ्ककल्पं द्रव्यलिङ्गम, इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्या पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः गच्छगता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः ‘अच्छेक' इत्यविकल इति तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतोन नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इतिभावना, अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टकं विषमाहताक्षरंविपर्यस्तनिविष्टाक्षरं, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपिशुद्धरूपसमाहताक्षरटङ्कयोः समायोगेसतिरूपकश्छेकत्वमुपैतीति गाथार्थः ।। रूपकदृष्टान्ते दान्तिकयोजनां निदर्शयन्नाहनि.(११३९) रुप्पं पत्तेयबुहा टंकं जे लिंगधारिणो समणा । दव्यस्सयभावस्सयछेओ समणो समाओगो ।। वृ-रूपंप्रत्येकबुद्धा इत्यनेन तृतीयभङ्गाक्षेपः,टकं ये लिङ्गधारिणः श्रमणा इत्यनेनतु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापिप्रथमचरमभङ्गद्वयस्येति,तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः ।। व्याख्यातं सप्रपञ्चं वैडूर्यद्वार, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः 'जं अन्नाणी कम्मखवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उसासमित्तेणं ।। तथा'सुईजहा ससुत्ता न नासकयवरंमि पडियावि । जीवो तहा ससुत्तो ननस्सइ गओऽविसंसारे ।। तथा_ 'नाणं गिण्हइ नाणं गुणेइ नाणेण कुणइ किच्चाई। .. भवसंसारसमुदं नाणी नाणे ठिओ तरइ ।। तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम, अतो ज्ञानिन एव कृतिकर्म कार्यम्, आहअनन्तरगाथायामेव द्रव्यभावसमायोगे श्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याहनि. (११४०) कामंचरणंभावोतं पुण नाणसहिओ समाणे । नयनाणं तु न भावो तेन र नाणिं पणिवयामो ।। वृ- 'कामम्' अनुमतमिदं, यदुत ‘चरणं' चारित्रं 'भावः' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधानं, न च ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेनरइति निपातः पूरणार्थः ज्ञानमस्यास्तीतिज्ञानीतंज्ञानिनं प्रणमामः' पूजयाम इतिगाथार्थः ।। यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःनि.(११४१) तम्हा न बज्झकरणंमज्झपमाणं न याविचारितं । नाणंमज्झ पमाणं नाणे अठिअंजओ तित्थं ।। नाणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy