________________
अध्ययनं - ३ - [ नि. ११३०]
३५
वृ तीर्थकरस्य गुणा ज्ञानादयस्तीर्थकरणगुणाः ते 'प्रतिमासु' बिम्बलक्षणासु 'नत्थि' न सन्ति ‘निःसंशयं’ संशयरहितं ‘विजानन' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' प्रणमन 'स' प्रणामकर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुलं' विस्तीर्णामिति गाथार्थः । । एष दृष्टान्तः, ,अयमर्थोपनयःनि. (११३१ )
लिंग जिनपन्नत्तं एव नमंतस्स निज्जरा विउला । विगुणविप्पहीणं वंदइ अज्झप्पसोहिए ।।
- लिङ्गयते साधुरनेनेति लिङ्ग-रजोहरणादिधरणलक्षणं जिनैः - अर्हदिमः प्रज्ञप्तं प्रणीतम् ' एवं ' यथा प्रतिमा इति ‘नमस्कुर्वतः ' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः- मूलोत्तरगुणैर्विविधम्अनेकधा प्रकर्षेणहीनं-रहितं गुणविप्रहीणं, 'वन्दते' नमस्करोति ‘अध्यात्मशुद्ध्या' चेतःशुद्धयेति गाथार्थः । । इत्थं चोदकेनोक्ते दृष्टान्तदाष्टन्तिकयोर्वैषम्यमुपदर्शयन्नाचार्य आह
नि. ११३२)
संता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । नय सावज्जा किरिया इयरेसु धुवा समणुमन्ना ।।
वृ- 'सन्तः ' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकरगुणा ज्ञानादयः क्व ? - 'तीर्थकरे' अर्हति भगवति इयं च प्रतिमा तस्य भगवतः ‘तेसिमं तु अज्झप्पं ' तेषां नमस्कुर्वतामिदमध्यात्मम्इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः तत्र कित्यित आह- 'समणुमण्णा' समनुज्ञा क्रियासावद्येयुक्तपार्श्वस्थादिप्रणमनात सावद्यक्रियानुमतिरिति हृदयम, अथवा सन्तस्तीर्थकरगुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः न च सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुर्ध्रुवा समनुज्ञेति गाथार्थः । । पुनरप्याह चोदकः
नि. (११३३ ) जह सावज्जा किरिया नत्थि य पडिमासु एवमियराऽवि । तयभावे नत्थि फलं अह होइ अहेउगं होइ ।।
वृ- यथा सावद्याक्रिया-सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु, एवमितराऽपि - निरवद्याऽपि नास्त्येव, ततश्च 'तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' पुण्यलक्षणम्, अथभवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्वा (भावा) त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिक कर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थः । । इत्थं चोदकेनोक्ते सत्याहाचार्य:नि. (११३४ ) कामं उभयाभावो तहवि फलं अत्थि मनविसुद्धीए । ती पुण मनविसुद्धीइ कारणं होति पडिमाउ ।।
वृ- 'कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् 'अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि - स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात्, यद्येवं कि प्रतिमाभिरिति ?, उच्यते, तस्याः पुनर्मनोविशुद्धेः ‘कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः ।
आह एवं लिङ्गमपि प्रतिमावन्म-नोविशुद्धिकारणं वत्येवेति उच्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org