________________
अध्ययनं-६- [नि. १६००
३२७ दवगुडो पिंडगुडो य, मधूणि तिन्नि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिन्नि, जलयरं थलयरं खहयरं, अथवा चम्मं मंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसमं, तावियाए अद्दहियाए एगं ओगाहिमेगं चलचलेंतं पञ्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति नजति अह एगेण चेव पूअएण सव्वो चेव तावगो भरितो तो बितियं चेव कप्पति निव्विगतियपच्चक्खाणाइतस्स, लेवाडं होति, एसा आयरियपरंपरागता सामायारी ।
अधुना प्रकृतमुच्यते, क्वाष्टौ क्व वा नवाकारा इति ?, तत्रनि. (१६०१)नवनीओगाहिमए अद्दवदहि (व) पिसियिघयगुले चेव ।
नव आगारा तेसिं सेसदवाणं च अद्वेव ।।। वृ- 'नवनीते ओगाहिमके अद्दवदवे' निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उतक्षिप्तविवेको न भवतीति गाथार्थः ।। इह चेदं सूत्रं
'निम्वियतियं पञ्चक्खती'त्यादि अन्नत्थऽणाभोगेणं सहसाकारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्त-विवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तररागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति ।
इदं च प्रायो गतार्थमेव, विशेषं तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रमाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यतेनि. (१६०२) गोण्णं नामं तिविहं ओअण कुम्मास सत्तुआ चेव ।
इक्किकंपि य तिविहं जहन्नयं मज्झिमुक्कोसं ।। वृ- आयामाम्लमिति गोण्णं नाम, आयामः-अवशायनं आम्लं-चतुर्थरसं ताभ्यां निर्वृत्तं आयामाम्लं, इदं चोपाधिभेदात् त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूंश्चेति, एकैकमपि चामीषां त्रिविधं भवति-जघन्यकं मध्यमं उत्कृष्टं चेति ।
कथमित्यत्राहनि. (१६०३) दव्वे रसे गुणे वा जहन्नयं मज्झिमं च उक्कासं ।
तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ॥ वृ- द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं ? -जघन्यं मध्यममुत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रयोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दध्ना भुानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गा-वक्रविशेषा इति । तद्यथानि. (१६०४) लोए वेए समए अन्नाणे खलु तहेव गेलन्ने ।
एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥ वृ-लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथासमासार्थः ।। विस्तरार्थस्तु वृद्धसम्प्रदायसमधिगम्यः, स चायं
‘एत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदने आयम्बिलं आयंबिलपाउग्गं च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org