________________
३१८
आवश्यक मूलसूत्रम्-२-६/८१
न केवलं भत्ते अन्नेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपच्चक्खाणी अच्छउ ? तम्हा तेनवि कातव्वं सङ्केतमिति ।
व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहनि. (१५७८) अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं ।
पुरिमडपोरिसीए मुहुत्तमासद्धमासेहिं ।। वृ- अद्धा-काले प्रत्याख्यानं यत् कालप्राणच्छेदेन भवति, पुरिरमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासक्षेपार्थः ।। अवयवत्थो पुन अद्धा नाम कालो कालो जस्स परिमाणं तं कालेनावबद्धं कालियपच्चक्खाणं, तं जथा-णमोक्कार पोरिसि पुरिरमड्डएकासणग अद्धमासमासं, चशब्देन दोन्नि मासा वा जाव छम्मासित्ति पन्चक्खाणं, एतं अद्धापच्चक्खाणं ।
गतमद्धाप्रत्याख्यानं, इदानीं उपसंहररन्नाहनि. (१५७९) भणियं दसविहमेयं पच्चक्खाणं गुरूवएसेणं ।
कयपच्चक्खाणविहिं इत्तो वुच्छं समासेणं ।। वृ-भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्द्धं वक्ष्ये ‘समासेन' सङ्केपेणेति गाथार्थः । नि. (१५८०) आह जह जीवघाए पच्चक्खाए न कारए अन्नं ।
भंगभयाऽसनदाने धुव कारवणे य ननु दोसे ।। वृ- प्रत्याख्यानाधिकार एवाह परः, किमाह ? -यथा जीवघाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति - न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?भङ्गभयात्- प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः-अश्यत इत्याशनम्-ओदनादि तस्य दानम्अशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभेसति भोक्तु- जिक्रियासद्भावात्, ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः।। नि. (१५८१) नो कयपच्चक्खाणो, आयरियाईण दिज्ज असनाई।
न य विरईपालणाओ वेयावच्चं पहाणयरं ॥ वृ-अतः-'नो कयपच्चक्खाणो आयरियाईण दिज्ज असनाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृधदिपरिग्रहः दद्यात्, किम् ?अशनादि, स्यादेतद्-ददतो वैयावृत्य लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्त्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः । नि. (१५८२) नो तिविहंतिविहेणं पच्चक्खइ अन्नदानकारणवणं ।
सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति ।।। वृ-एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण ‘प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः-तस्मात् मुनेः-साधोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org