SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० आवश्यक मूलसूत्रम् -२-६/७९ इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-पोसधोववासस्स समणो'. पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युप्रेक्षणं दुष्पद्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराद्युपयोगिनः पीठ (फल) कादेरपि । एत्थ पुन सामायारी-कडपोसधो नो अप्पडिलेहिया सज्जं दुरूहति, संथारगं वा दुरुहइ, पोसहसालं वा सेवइ, दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुनरवि पडिलेहति, अन्नधातियारो, एवं पीढगादिसुवि विभासा । तथा अप्रमार्जितदुष्प्रमार्जितशय्या-संस्तारौ, इह प्रमार्जनं-शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेष भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठ्यूतखेलमलाद्युपलक्षणं, शेषं भावितमेव । तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्- अनासेवनम्। एत्थ भावना-कतपोसधो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अट्ठाए आढत्तिं कारेइ, करेइ वा इमं २ वत्ति कहे धनियं वट्टइ, सरीरसक्कारे सरीरं वद्देति, दाढियाउ केसे वा रोमराई वा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सव्वाणि सरीरविभूसाकरणाणिं (ण) परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइत्ता मो बंभचेरेणंति, अव्वावारे सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणपालेतव्वोत्ति । उक्तं सातिचारं तृतीयशिक्षापदव्रतं, अधुना चतुर्थमुच्यते, मू. (८०) अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दानं, अतिहिंस. विभागस्स समणो० इमे पञ्च० तंजहा-सच्चित्तनिखेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य। वृ.इह भोजनार्थं भोजनाकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य गृहिव्रतिनः मुख्यः साधुरेवातिथिस्तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, ‘न्यायागताना'मिति न्यायः द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेन ताशा न्यायेनागतानां-प्राप्तानाम्, अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्गमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां द्रव्याणाम्, आदिग्रहणाद् वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, 'देशकालश्रद्धासत्कारक्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकङ्गुगो-धूमादिनिष्पत्तिभाग देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy