________________
आवश्यक मूलसूत्रम् - २-६/७७
वाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावद्यवाक्प्रयोग इति, उक्तं च"कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा । सइ निरवज्रं वयणं अन्नह सामाइयं न भवे ॥२॥” कायदुष्प्रणिधान कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च
३०८
"अनिरिक्खियापमजिय थंडिले ठाणमादि सेवेन्तो । हिंसाभावेवि न सो कडसामइओ पमादाओ || १ ||”
सामायिकस्य स्मृत्यकरणं- सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः - उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति - प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च"न सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं । कतमकतं वा तस्स हु कयंमि विफलं तयं नेयं ||१||”
सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च
"कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए । अनवट्ठियं सामइयं अनादरातो न तं सुद्धं ||१||”
उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह
मू. (७८) दिसिव्वयगहियस्स दिसापरिरमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पञ्च०, तं जहा - आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रुवाणुवाए बहिया पुग्गलपक्खेवे ॥
वृ- दिग्व्रतं प्राग् व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिनंप्रतिदिवसमित्येतच्च प्रहरमुहूर्त्ताद्युपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशः - अंशः तस्मिन्नवकाशःगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्क्षेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसङ्क्षेपाभावाद् भावे वा पृथक्शिक्षापदभावप्रसङ्गादित्यलं विस्तरेण । एत्थ य सम्पदिनंतं आयरिया पण्णवयंति, जधा सप्परस पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विज्जावादिएण ओसारेंतेन जोयणे दिट्ठिविसओ से ठवितो, एवं सावओवि दिसिव्वतागारे बहुयं अवररज्झियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिट्ठतो - अगतेन एक्काए अंगुलीए ठवितं, एवं विभासा |
इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीयमित्यत आह- 'देसा० देशावकाशिकस्यप्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा‘आनयनप्रयोगः’ इह विशिष्टे देशाधि (दि) के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org