SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-५- [नि. १४४६] २४५ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्र गाथानि. (१४४६) काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणु ।। वृ- कायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्रयश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः । मूलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनि. (१४४७) नामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छव्विहो होइ । वृ-'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराहनि. (१४४८)दव्वयुज्झणा उ जं जेण जत्थ अवकिरइ दव्वभूओ वा । जं जत्थ वावि खित्ते जं जच्चिरं जंमि वा काले ॥ वृ- ‘दव्वुज्झणा उ जं जेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव ‘ज'त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एष द्रव्ययोत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्थ वावि खेत्ते'त्ति यत्क्षेत्रं दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते रजनी साधवः ‘जच्चिर'ति यावनतं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो व्यावर्ण्यते एष कालोत्सर्ग इति गाथार्थः ॥ भावोत्सर्गप्रतिपादनायाहनि. (१४४९) भावे पसत्थमियरं जे न व भावेण अवकिरइ जंतु । अस्संजमं पसत्थे अपसत्ये संजमं चयइ ।। वृ-'भावे पसत्थमियरं' 'भावे'त्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा-प्रशस्तं-शोभनं वस्त्वधिकृत्य 'इतरं'त्ति अप्रशस्तमशोभनं च, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावनोत्सर्ग इति तृतीयासमासः, तत्र असंमं प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजतीति गथार्थः । यदुक्तं येन वा भावेनोत्सृजति तप्रकटयन्नाहनि. (१४५०) खरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई । दवियमवि चयइ दोसेण जेण भावुझणा सा उ ॥ वृ- 'खरफरुसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुषं-दुभार्षणोपेतं अचेतनं दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव भावुज्झणा सा उ' भावनोत्सर्ग इति गाथार्थः ।। गतं मूलद्वारगाथायामुत्सगमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते,नि. (१४५१)उस्सग्ग विउस्सरणुज्झणा य अवगिरण छड्डुण विवेगो । वजण चयणुम्मुअणा परिसाडण साडणा चेव ।। (प्र.) उस्सगे निखेवो चउक्कओ छक्कओ अ कायव्यो । निक्खेवं काऊणं परूवणा तस्स कायव्वा ।। वृ- 'उस्सग्ग विउस्सरणु' उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणण छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना शातना चैवेति गाथार्थः ।। मूलद्वारगाथायामुक्तान्युत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्गः । इदानीं मूलद्वारगाथागतविधान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy