________________
अध्ययनं - ५ - [ नि. १४३७ ]
२४३
'दव्वत्थिकाय'त्ति द्रव्यास्तिकायत्वं, सदैव तद्भावयोगादिति गाथार्थः । आह-यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि स एव तस्य भावो यस्मिन् वर्त्तते इति । अत्र गुरुराह
नि. ( १४३८) कामं भवियसुराइसु भावो सो चेव जत्थ वट्टंति । एस्सो न ताव जायइ तेन र ते दव्वदेवृत्ति ॥
वृ- 'कामं भवियसुरादि' काममित्यनुमतं यथा 'भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात् द्रव्यनारकादिग्रहः तेषु तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो भावी न तावज्जायते तदा, 'तेन र ते दव्वदेव' त्ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात्, न चैतद् धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः ॥
यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधायाह चोदक:नि. (१४३९) दुहओऽ नंतररहिया जइ एवं तो भवा अनंतगुणा । एस एगकाले भवा न जुजंति उ अनेगा ॥
वृ- 'दुहओऽ नंतररहिया' 'दुहउ' त्ति वर्त्तमानभावस्थितस्य उभयत एष्यकालेऽती तकाले तरौ एष्यातीतौ अनन्तरौ च तौ रहितौणाद् गम्यते अनन्तररहितौ तावपि 'जइ' त्ति यदि तस्योच्यते ' एवं तो भवा अनंगुण' त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वाकल्पना स्यात्, अथोच्येत्-भवत्वेवमेव का नो हानिरिति ?, उच्यते, एकस्य- पुरुषादेरेककाले-पुरुषादिकाले भवा न युज्यन्ते न घटन्ते अनेके - बहव इति गाथार्थः । इत्थं चोदकेनोक्ते गुरुराहनि. ( १४४०) दुहओऽ नंतर भवियं जह चिट्ठइ आउअं तु जं बद्धं ।
हुजियरेसुवि जइ तं दव्वभवा हुज्ज तो तेऽवि ॥
वृ- 'दुहओऽनंतरभवियं' 'दुहउ' त्ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकं, पुरस्कृतश्चात्कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयं गाथार्थः ।। पुरस्कृतभवसम्बन्धि त्रिभागावशेषायुष्कः, सामान्येन तस्मिन्नमेव भवे वर्तमानो बध्नाति पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्त्यर्थमाह - 'होजियरेसुवि जइ तं दव्वभवा भवेरंस्ततस्तेऽपि तदायुष्ककर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह
नि. ( १४४१) संझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभास खित्तं तहेव एयंपि नायव्वं ॥
वृ- 'संज्ञासु दोसु सूरा' सन्ध्या च सन्ध्या च तयोः सन्ध्ययोर्द्वयोः प्रत्यूषप्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अश्यमानोऽपि अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते-प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव-यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं विज्ञेयमिति, एतदुक्तं भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org