SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १३२०] २११ एवात्मा, तत्रैवसुखदुःखादितत्कार्योपलब्धेः, पृथिव्यादीनांत्वल्पचैतन्यत्वात् कार्यानुपलब्धिर्नाजीवत्वादिति, जीवा अप्येकान्तणिकान भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादेकान्तनष्टस्यासदविशेषत्वात्, सत्त्वाःसंसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात्, तथाऽन्यैरप्युक्तं “नासतो विद्यतेभावो, नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।।" इत्यादि कालस्याऽऽशातनया, क्रिया पूर्ववत्,आशातना तु नास्त्येव काल इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः “कालः पचतिभूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिकमः ।।" इत्यादि, उत्तरं-कालोऽस्ति, तमन्तरेण वकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य परिणामानुपपत्तेः । श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तुको आउरस्स कालो? मइलंबरधोवणेय को कालो? । जइभोक्खहेउनाणं को कालो तस्सऽकालो वा? ।। इत्यादि, (उत्तर)-जोगो जोग्गो जिनसासणंमि दुक्खक्खया पउंजंतो। अन्नोन्नमबाहाए असवत्तो होइ कायव्यो ।। प्राग् धर्मद्वारेण श्रुताशातनोक्ता इहतुस्वतन्त्रविषयेतिन पुनरक्तं । श्रुतदेवताया आशातनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति, न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यो [पाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखःप्रभूतान्वारान् वन्दनंदापयति, उत्तरं-श्रुतोपचार एषः क इव तस्यात्र दोष इति मू. (२९) जं वाइद्धं वच्चामेलियं हीणक्खरियं अच्चक्खरियं पयहीणं विनयहीणं घोसहीण जोगहीणं सुहदिन्नं दुह पडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयंसज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं । वृएए चोद्दस सुत्ता पुब्विल्लिया य एगूणवीसंति एएतेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाजीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथाव्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यास्नेडितं कोलिकपायसवत्, हीनाक्षरम्अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षरं, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम्-उदात्तादिघोषरहितं, योगरहितं-सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy