________________
१६३
अध्ययनं -४- [नि. १२७३]
तह मारणंतियऽहियासणाय एएऽनगारगुणा ।। वृ- व्रतषट्कं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः,भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं चबाह्यं प्रत्युपेक्षणादिकरणसत्यंभण्यते, क्षमाक्रोधनिग्रहः, विरागतालोभनिग्रहः, मनोवाक्कायानामकुशलानामकरणंकुशलानामनिरोधश्च, कायानां-पृथिव्यादीनांषट्कं, सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदनाशीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्धया मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्वयार्थः ।। अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः, क्रिया पूर्ववत्, अष्टाविंशतिभेदान् दर्शयति
सत्थपरिना लोगो विजओ य सीओसणिज्ज संमत्तं ।
आवंतिधुवविमोहो उवहाणसुय महापरिन्ना य ।। पिंडेसणसिजि रिया भासज्जायाय वत्थपाएसा ।
उग्गहपडिमा सत्तेक्कतयं भावणविभुत्तीओ ।। उग्घायमनुग्धायं आरुवणा तिविहमो निसीहं तु ।
इय अट्ठावीसविहो आयारपकप्पणामोऽयं ।। गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारुपाइति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः
अट्ठनिभित्तंगाइं दिव्वुप्पायंतलिक्खभोमंच । अंगसरलक्खणवंजणंच तिविहं पुणोक्केक्कं ।। सुत्तं वित्ती तह वत्तियं च पावसुय अउणतीसविहं ।
____ गंधव्वनट्टवत्थु आउंधनुवेयसंजुतं ।। वृ- अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यपृट्टहासादिविषयम्, उत्पातं-सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्ष-ग्रहभेदादिविषयं, भौम-भूमिविकारदर्शनादेवास्मादिदंभवतीत्यादिविषयम्, अङ्गम्-अङ्गविषयं स्वरं-स्वरविषयं, व्यञ्जनं-मषादि तद्विषयं, तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादिजानत्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकंच, इत्यनेन भेदेन
दिव्वाईण सरुवं अंगविवजाणहोति सत्तण्हं । सुत्तं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं ।।
अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विन्नेया ।
__ वक्खाणं अपरिभियं इयमेव य वत्तियं जाण ।। पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थु ति वास्तुविद्या आउ'न्ति वैद्यकं, शेष प्रकटार्थं ।।
त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तंच'अट्ठविहंपिय कम्मं भणियं मोहोत्तिजं समासेणमित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्गहणिकारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org