________________
अध्ययनं - ४ - [ नि. १२७१]
भूओवरोहरहिओ सो देसी झायमाणस्स ।। ३७ ।।
वृ- यत एव तदुक्तं ‘ततः' तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधानं' स्वास्थ्यं ‘भवति’ जायते, केषामित्यत आह- 'मनोवाक्काययोगानां' प्राग्निरुपितस्वरुपाणामिति, आहह-मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र क्वोपयुज्यते ?, न हि तन्मयं ध्यानं भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारकं, ध्यानमपि च तदात्मकं भवत्येव, यथोक्तम्
' एवंविहा गिरा मे वत्तव्वा एरिसी न वक्तव्वा । इय वेयालियवक्वस्स भासओ वाइगं झाणं ।।' (तथा) - 'सुसमाहियकपायस्स अकज्जे कारणमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ।।'
न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि पृथिव्यादीनि उपरोधः- तत्सङ्घट्टनादिलक्षणः तेन रहितः परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद्' अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो 'ध्यायतः ' चिन्तयतः, उचित इति शेषः, अयं गाथार्थः । । गतं देशद्वारम् अधुना कालद्वारमभिधित्सुराह
कालोऽवि सोच्चिय जहिं जोगसमाहाणमुत्तमं लहइ । नउ दिवसनिसावेलाइनियमणं झाइणो भणियं । । ३८॥
वृ- कलनं कालः कलासमूहो वा कालः, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह - कालोऽपि स एव, ध्यानोचित इति गम्यते, ‘यत्र' काले 'योगसमाधानं' मनोयोगादिस्वास्थ्यम् 'उत्तमं' प्रधानं 'लभते' प्राप्नोति, 'नतु' न पुनर्नैव च, तुशब्दस्य पुनः शब्दार्थत्वादेवकारार्थत्वाद्वा, किं ? - दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाह्णापराह्णादि वा एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः सत्त्वस्य भणितम्उक्तं तीर्थकरगणधरैर्नैवेति गाथार्थः । । गतं कालद्वारं, साम्प्रतमासनविशेषद्वारं
अजय देहावस्था जिया न झाणोवरोहिणी होइ ।
झाजा तदवत्थो ठिओ निसन्नो निवन्नो वा ।। ३९ ॥
१०१
वृ- इहैव या काचिद् 'देहावस्था' शरीरावस्थानिषन्नादिरुपा, किं ? - 'जिता' इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमानान ध्यानोपरोधिनी भवति' नाधिकृतर्मध्यानपीडाकरी भवतीत्यर्थः, 'ध्यायेत तदवस्थ' इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः, प्राह- 'स्थितः' कायोत्सर्गेणेषन्नतादिना ‘निषन्नः’ उपविष्टो वीरासनादिना 'निर्विन्न' सन्निविष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः । आह-किं पुनरयं देशकालासनानामनियम इति ?, अत्रोच्यते,
सव्वासु वट्टमाणामुणओ जं देसकालचेट्ठासु ।
वरकेवलाइलाभं पत्ता वहुसो समियपावा ।। ४० ।।
वृ- 'सर्वासु' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा देहावस्था, किं ? 'वर्तमानाः ' अवस्थिताः, के ।-‘मुनयः’ प्राग्निरुपितशब्दार्थाः 'यद्' यस्मात्कारणात्, किं ? - वरः - प्रधानश्चासौ केवलादिलाभश्च २ तं प्राप्ता इति, आदिशब्दान्मनः पर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः ?, न, केवलवर्ज 'बहुश: ' अनेकशः, किंविशिष्टाः ? - 'शान्तपापाः' तत्र पातयति नरकादिष्विति पापं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org