SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. १४३] नि. (१४३) एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायव्यो । अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो ॥ वृ- ‘एवमेव च' यथा उद्देश उक्तस्तथा, निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनिवृत्त्यर्थमाह-किंतु 'अविशेषितः' सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशे जिनभद्र इत्याद्यभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनिर्देशः यथा-गौः, तेन वा-अश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा-भरतं, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देशः यथा-समय इत्यादि, तेन वा-वासन्तिक इत्यादि, समासनिर्देशःआचाराङ्ग आवश्यक-श्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देशः-शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यक्तयभिधानं भावनिर्देशः यथा-औदयिक इत्यादि, तेन-औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः ॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं ?, अध्ययनमिति समासोद्देशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम्, अस्य च निर्देष्टा त्रिविधः-स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीत्यमुं अर्थमभिधित्सुराहनि. (१४४) दुविहंपि नेगमनओ निद्देसं संगहो य ववहारो। निद्देसगमुजुसुओ उभयसरित्थं च सहस्स ॥ वृ- 'द्विविधमपि' निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः ?, लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोके च निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता प्रियदर्शनेति, निर्देशकवशाच्च यथा-मनुना प्रोक्तौ ग्रन्थो मनुः, अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशात् यथा-षड्जीवनिका, तत्र हि षड् जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वाा नैगमस्य निर्देश्यवशानपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकाथरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, तथा निर्देष्टुस्त्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैगमः । आह- "द्विविधमपि नैगमनयः' इत्येतावत्युक्ते निर्देश्यवशात् निर्देशकवशाच्च निर्देशमिच्छतीति क्रियाऽध्याहारः कुतोऽवसीयते इति, उच्यते, यत आह “निर्दिष्टं' वस्त्वङ्गीकृत्य, संग्रहो व्यवहारः, चशब्दस्य व्यवहितः संबन्धो, निर्देशमिच्छतीति वाक्यशेषः अत्र भावना-वचनं ह्यर्थप्रकाशकमेवोपजायते, प्रदीपवत्, यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थं प्रतिपादयन्नेव, ततस्तत्प्रत्ययोपलब्धेः, तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदधिकृत्य संग्रहो व्यवहारश्च निर्देशमिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति । तथा निर्देशकसत्त्वमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति । ततश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy