________________
उपोद्घातः - [नि. १३५] भाषादीनां तत्प्रभवत्वात् १ । इदानीं पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित् स्थूरावयवनिष्पत्ति, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना पूर्ववत् २ । इदानी चित्रविषयो दृष्टान्तः-यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रिं करोति, कश्चित्तु हरितालादिवर्णोद्भेदं, कश्चित्त्वशेष्पर्यायैर्निष्पादयति, दान्तिकयोजना पूर्ववत् ३ । श्रीगृहिकोदाहरणं-श्रीगृह-भाण्डागारं तदस्यास्तीति ‘अत इनिठनौ' इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति-इह भाजने रत्नानीति, कश्चित्तुं जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकायदो द्रष्टव्याः ४। तथा पोंड' इति पुण्डरीकं पद्यं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं ५ । इदानीं देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिकःयथा कश्चिद्देशिकः पन्थानं पृष्टः दिडमात्रमेव कथयति, कश्चित् तद्यवस्थिगतग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दान्तिकयोजना पूर्ववत् ज्ञेया ६ । एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थः ।। इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधि प्रतिपादयन्नाहनि. (१३६)गोणी १ चंदनकंथा २ चेडीओ ३ सावए ४ बहिर ५ गोहे ६ ।
टंकणओ ववहारो ७, पडिवक्खो आयरियसीसे ॥ वृ- आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थ प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवण-सुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः ? अनुगमान्तर्भावात्, अन्तर्भावस्तु व्याख्याङ्गत्वात् इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्वं प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहुवक्तव्यत्वात् मा भूदहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यो गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थं, विशेषेण सूत्रक्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः-प्रशान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति ।
एगंमि नगरे एगेन कस्सइ धुत्तस्स सगासाओ गावी रोगिता उठ्ठितुंपि असमत्था निविट्ठा चेव किणिता, सो तं पडिविक्किणति, कायगा भणंति-पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविट्ठा चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे न सोअव्वं, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुन अविकलागोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयव्वं, सीसोऽवि जो अवियारियगाही पढमगोविकणगोव्व सो अजोग्गो इतरो जोग्गोत्ति १ ।
चंदणनकंथोदाहरणं-बारवईए वासुदेवस्स तिन्नि भेरीओ, तं जहा-संगामिआ उब्भुतिया कोमुतिया, तिन्निवि गोसीसचंदनमइयाआ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org