________________
आवश्यक मूलसूत्रम् - १
अविवृतं मुकुलतुल्यं सूत्रं तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकार्थकविभाग उपलभ्यते - कमलमरविन्दं पङ्कजमित्यादि पद्मार्थिकानि, तथा कुडूमलं वृन्दं संकुचितमित्यादि मुकलैकार्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागोऽविरुद्धः । अथवा व्याख्यायते
७८
एकार्थिकानि त्रीण्येवाश्रित्य वक्तक्यानि, प्रवचनमेकार्थगोचरः तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् । आह-द्वारगाथायां यदुक्तं 'प्रवचनैकार्थिकानि वक्तव्यानि तव्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः । आहयद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यं, न, विभागश्चेति किमुक्तं भवति ? नाविशेषेणैकार्थिकानि वक्तव्यनि सामान्यविशेषरूपस्यापि प्रवचनस्य पञ्चदशेति, किं तर्हि ? - विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, न हि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथाऽध्ष्टत्वाद् इति गाथार्थः ॥
नि. (१३०) सुय धम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाढो सत्थं च एगट्ठा ॥
वृ- श्रुतस्य धर्मः - स्वभावः श्रुतधर्मः बोधस्वभावत्वात् श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तद्धर्मश्चेति समासः, सुगतिधारणाद्वा श्रुतं धर्मोऽभिधीयते, 'तीर्थं' प्राक्निरूपितशब्दार्थं, तच संघ इत्युक्तं, इह तु तदुपयोगानन्यत्वात् पवचनं तीर्थमुच्यते, तथा मृज्यते - शोध्यते अनेनात्मेति मार्गः, मार्गणं वा मार्गो, अन्वेषणं शिवस्येति, तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, प्रवचनं तु पूर्ववत् उक्तः प्रवचनविभागः, इदानीं सूत्रविभागोऽभिधीयते - तत्र सूचनात् सूत्रं, तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति तन्त्रं, तथा ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठ: पठ्यते वाऽनेनास्मादस्मिन्निति या अभिधेयमिति पाठः, व्यक्तीक्रियत इति भावार्थः, तथा शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मनेति वा शास्त्रं, एकार्थिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यायापनार्थमिति गाथार्थः ॥
नि. (१३१) अनुओगो य नियोगो भास विभासा य वत्तियं चेव । अनुओगस्स उ एए नामा एगट्ठिआ पंच ॥
वृ- सूत्रस्यार्थेन अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलोऽनुरूपो वा योगोऽनुयोगः, यथा घटशब्देन घटोऽभिधीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनं, यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति शेषं सुबोधं, अयं गाथा समुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति, तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रऋमे सति एकार्थिकानुयोगादेर्भेदनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्यापनार्थं, उक्तं च- 'सुत्तधरा अत्यधरो इत्यादि' ॥ तत्र अनुयोगाख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org