________________
७४
आवश्यक मूलसूत्रम्-१
अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केपट्टेणं ? भन्ते ! पुच्छा, गोयमा ! दुविहे कम्मे पन्नत्ते, तं जहा-पएसकम्मे अ अनुभावकम्मे अ, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अनुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गइयं नो वेएइ" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह-यद्येवं संयतस्य अनन्तानुबन्ध्यदयतः कथं दर्शनविघातो न भवति ? उच्यते, प्रदेशकर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराया भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्जानिनः तदावरणोदय इत्यलं विस्तरेण ॥ इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येण्डासंख्येयखण्डान्युप-शमयन सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारःनि. (११७) लोभाणुं वेअंतो जो खलु उवसामओ व खवगो वा ।
सो सुहुमसंपराओ अहखाया ऊणओ किंची ॥ कृगाथेयं गतार्थत्वात् न विव्रियते, नवरं यथाख्यातात् किञ्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तर्मुहूर्त्तमात्रकालमानामनुभूयोपशमकनिर्ग्रन्थो यथाख्यातचारित्रीभवति ॥ स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुऽाविमानवासिषु उत्पद्यते, श्रेणिप्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्रं उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि उदितकषायः कार्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराहनि. (११८) उवसामं उवनीआ गुणमहया जिनचरित्तसरिसंपि ।
पडिवायंति कसाया किं पुण सेसे सरागत्थे ।। वृ- 'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् गुणमहान् तेन गुणमहता-उपशमकेन, किम् ? -प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम् ?-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्ति लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि संसारमनुबघ्नातीति। यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारःनि. (११९) जइ उवसंतकसाओ लहइ अनंतं पुणोऽवि पडिवायं ।
न हु भे वीससियव्वं थेवे य कसायसेसंमि ।। नि. (१२०) अणथोवं वणथोवं अग्गीथोवं कसायथोवं च ।
नहु भे वीससियव्वं थेवंपि हु तं बहु होइ ।। वृ-प्रथमगाथा प्रकटार्थत्वान्न वितयन्ते, कणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण
"दासत्तं देइ अनं अचिरा मरणं वनो विसप्पंतो।
सव्वस्स दाहमग्गी देंति कसाया भवमनंतं ॥" अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः ।। इत्थमौपशमिकं चारित्रमुक्तं, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानी क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org