________________
आवश्यक मूलसूत्रम्-१
वक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः -
परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो।
सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं । तत्थ जहन्ने गिम्हे चउत्थ छटुं तु होइ मज्झिमओ।
अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि ॥ सिसिरे तु जहन्नादी छट्ठादी दसमचरिमगो होति ।
वासासु अट्ठमादी बारसपज्जंतगो नेओ ॥ पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे ।
कप्पट्ठियादि पइदिण करेति एमेव आयामं ॥ एवं छम्मासतवं चरित्तु परिहारिया अनुचरंति । अनुचरगे परिहारियपदहिते जाव छम्मासा ।। कप्पट्टितोवि एवं छम्मासतवं करेंति सेसा उ ।
अनुपरिहारिंगभावं वयंति कप्पट्ठिगत्तं च ॥ एवेसो अट्ठारससमाणापमाणो उ वण्णिओ कप्पो ।
संखेवओ विसेसा विसेससुत्ताओ नायव्यो ।। कप्पसमत्तीए तयं जिनकप्पं वा उविति गच्छं वा ।
पडिवजमाणगा पुन जिनस्स पासे पवनंति ।। तित्थयरसमीवासेवगस्स पासे व नो उ अन्नस्स ।
एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ 'तथा' इत्यानन्तर्यार्थे, गाथाभङ्गभयान्धवहितस्योपन्यासः, 'सूक्ष्मसंपरायं' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायं, तच्च द्विधा-विशुध्यमानकं संक्किश्यमानकंच, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संकिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः ।। नि. (११५) तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि ।
जं चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥ वृ- 'ततश्च सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथाख्यातंप्रसिद्धं सर्वस्मिन् जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेषं निगदसिद्धं, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन तदजरामरमिति गाथार्थः ।।
तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाहJain Education International
For Private & Personal Use Only
www.jainelibrary.org