________________
नमो नमो निम्मल दंसणस्स
पंचम गणधर श्री सुधर्मास्वामिने नमः
४० आवश्यक - मूलसूत्रं
(सटीकं) [प्रथमं मूलसूत्रं ]
मूलम् + भद्रबाहुस्वामिरचिता निर्युक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरिरचिता वृत्तिः
आवश्यक सूत्रे - "पीठिका"
प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधुन् । आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये ॥
यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि संक्षेपात् । तद्रुचिसत्त्वानुहहेतोः त्रियते प्रयासोऽयम् ॥
"
३
वृ- इहावश्यप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् कण्टकशाखामर्दनवत् इति एवमाद्याशङ्कापनोदाय प्रयोजनादि पूर्वं प्रदर्श्यत इति, उक्तं च
“प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥
इत्यादि । अतः प्रयोजनमभिधेयं सम्बन्धो मङ्गलं च यथावसरं प्रदर्श्यत इति । तत्र प्रयोजनं तावत् परापरभेदभिन्नं द्विधा, पुनरेकैकं कर्तु श्रोत्रपेक्षया द्विधैव, तत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, "इत्येषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन्न भविस्यति, न कदाचिन्न भवति" इतिवचनात् । पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति । तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया चानित्यत्वात् कथञ्चित् कर्तुसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिमित चेत्, न किञ्चित् कृतकृत्यत्वात्, प्रयोजनमन्त रेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत्, न तस्य तीर्थकरनामगोत्रविपाकित्वात्, वक्ष्यति च"तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसनादीहि" इत्यादिना । श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यक श्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः ? तत्कारणत्वात्तदवाप्तेः, तदवाप्तौ च पारम्पर्येण मुक्तिसिद्धेः इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि । सम्बन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथम् ? उपेयं
?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org